पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
8
[ अरण्यकाण्डः
मुनिगणशरणागति:



 सामान्यतः तद्देशत्वं दण्डकारण्यस्यापि । अन्तराभिप्रायस्तु भूम- विराडिग्रहाश्रितत्वात् त्वद्विषयवासित्वं नित्यमेवेति । परावरायोध्या- नगरस्थो वा भूः, परावरवनस्थो वा भू: ; तद्वदेतावरण्यं च ब्रह्मलोके विन्दतीति (?) श्रुतेः परं ब्रह्मवनं चास्ति । किं बहुना ? कारणप्रधानः कार्यप्रधानो वा त्वमवेहामुत्र सवेनो रक्ष इत्यान्तराशयः । महाप्रभावानां भवतां कुतो रक्षकान्तरापेक्षेत्यत्राहुः – न्यस्तेत्यादि । न्यस्तः दण्डः - भूतनिग्रहो यैस्ते तथा । जितशापतो भूननिग्रहा- भाव च हेतुः – जितक्रोधा इति । तपोनाशमिया परिहृतक्रोधाः । तत्रापि हेतु: - जितेन्द्रिया इति । इन्द्रिये कद्वार कसकलदुःख- क्षमापराः इत्यर्थः । यदेवमतः - रक्षितव्या इत्यादि । गर्भभूता इति । यथा मातुः गर्भं प्राप्तो जीवः मात्रा रक्ष्यते, तद्वत् रक्ष्याः इत्यर्थः । अत्राप्यन्तराभिप्र यस्तु - भवदीयभूम विग्रहाण्डगर्भनित्य- प्रतिष्ठिता इति ॥ २० ॥

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च [१]राघवम् ।
[२].अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥

 अन्यैरिति । नीवारादिभिरित्यर्थः ॥ २१ ॥

तथाऽन्ये तापसाः सिद्धाः रामं वैश्वानरोपमाः ।
न्यायवृत्ताः यथान्यायं तर्पयामासुरीश्वरम् || २२ ।।

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे प्रथम: सर्ग:



  1. पार्थिवम्- ङ. ज.
  2. अन्ये - संकलसिद्धाः - गो. ति