पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ सर्ग:] इत्युक्ता रक्षसा सीता न्यरोन्निर्भयैव तम् राजा दशरथो नाम * धर्मसेतुरिवाचलः । सत्यसन्धः परिज्ञातः यस्य पुत्रः स राघवः ॥ २ ॥ धर्मसेतुरिवेत्येकं पदम् इवेन विभक्तयलोपः समासश्च' इति । सेतुः – मर्यादया अवस्थितिहेतुः । धर्मस्य सेतुरिव मर्यादाप्रतिष्ठापकः इत्यर्थः ३: । परिज्ञातः --- प्रसिद्धः ॥ २ ॥ रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः । दीर्घबाहुः विशालाक्षः देवतं हि पतिर्मम ॥ ३ ॥ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः । लक्ष्मणेन सह भ्रात्रा यस्ते प्राणान्। हरिष्यति ॥ ४ ॥ प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात् । शयिता त्वं इतः संख्ये जनस्थाने यथा खरः ।। ५ ।। य एते राक्षसाः + प्रोक्ताः घोररूपा महाबलाः ! राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥ ६ ॥ य एते प्रोक्ता इति । त्वया मत्पुरतः इति शेषः ।। ६ ।। तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः । || शरीरं विधमिष्यन्ति गङ्गाकूलभिवोर्मयः ॥ ७ ॥ + असुरैर्वा सुरैर्वा त्वं यद्यवध्योऽसि, रावण ! § उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे || ८ || 385

  • बर्मेति पृथक्पदं लुप्तषष्ठीकम् । धर्मस्य अचल: सेतुरिव मर्यादाप्रतिष्ठापक:- ति.

धर्मसेतुः- धर्मंस्य सेतुरिव मर्यादास्थापकः इत्यर्थः । अचल:- स्थिर:- गो.प्रोता:- गमनाय प्रेरिताः- रा. रामवधार्थमिति शेषः । राम: सुरासुरानपि अतिशेत इत्यर्थः । S त्वद्विषये तस्य वैरमुत्पाय - तादृशं कर्म कृत्वेत्यर्थः । 'बधिष्यति-ज. RAMAYANA-VOL. IV 25