पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

348 जटायुइशातनम् स तानि शरजालानि गृधः पत्ररथेश्वरः । जटायु: प्रतिजग्राह * रावणास्त्राणि संयुगे || ५ || रावणास्त्राणि । रावणविसृष्टानीत्यर्थः । शरजालस्य विशेषणमिदम् । औणादिकः ञन् ॥ ५ ॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां विपोथयन् । चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ ६ ॥ पुथ संक्शे, विपोथयन्- पीडयन् । तस्य गात्रे इत्यन्वयः ॥ अरण्यकाण्ड: अथ 'क्रोधात् दशग्रीवः जग्राह दश मार्गणान् । मृत्युदण्डनिभान् घोरान् 'शत्रुमर्दनकांक्षया ॥ ७ ॥ स तैत्रीण महावीर्य पूर्णमुक्तैरजिमगैः । बिभेद निशितैस्वीक्ष्णैः गृधं घोरै: शिलीमुखैः ।। ८ ।। स 'राक्षमरथे पश्यन् जानकीं बाष्पलोचनाम् । ‡ अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रात् ॥ ९ ॥ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजाः बभञ्ज पतगेश्वरः ।। १० ।। ततोऽन्यद्धनुरादाय रावण क्रोधमूर्छितः । ववर्ष शरवर्षाणि शतशोऽय सहस्रशः ।। ११ ।।

  • रावणास्त्राणि – रावणक्षिप्तानीति शरजालविशेषणम् । अनेरौणादिकखन् ।

'रावणास्तानि' इति पाठस्तु सुगम एव-ति. + शिलीमुखैः शिली – शस्त्रं मुखे येषां तेः बाणेः- गो. + जानकीव्यथादर्शनेन स्वसंकटा चिन्तनम् । । सवणास्थानि-ङ 2 कुड:-ङ, 3 शत्रोनिंधन-ज. पतगोत्तमः-ज. " रावणरथे--ङ,