पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
348
अरण्यकाण्ड:
जटायुइशातनम्

स तानि शरजालानि गृधः पत्ररथेश्वरः ।
जटायु: प्रतिजग्राह [१] [२] रावणास्त्राणि संयुगे || ५ ||

 रावणास्त्राणि । रावणविसृष्टानीत्यर्थः । शरजालस्य विशेषणमिदम् । औणादिकः ञन् ॥ ५ ॥

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां विपोथयन् ।
चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ ६ ॥

 पुथ संक्शे, विपोथयन्- पीडयन् । तस्य गात्रे इत्यन्वयः ॥

अथ [३] क्रोधात् दशग्रीवः जग्राह दश मार्गणान् ।
मृत्युदण्डनिभान् घोरान् [४] शत्रुमर्दनकांक्षया ॥ ७ ॥
स तैत्रीण महावीर्य पूर्णमुक्तैरजिमगैः ।
बिभेद निशितैस्वीक्ष्णैः गृधं घोरै: [५] शिलीमुखैः ।। ८ ।।
स 'राक्षमरथे पश्यन् [६] जानकीं बाष्पलोचनाम् ।
अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रात् ॥ ९ ॥
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।
चरणाभ्यां महातेजाः बभञ्ज पतगोत्तमः-ज. पतगेश्वरः ।। १० ।।
ततोऽन्यद्धनुरादाय रावण क्रोधमूर्छितः ।
ववर्ष शरवर्षाणि शतशोऽय सहस्रशः ।। ११ ।।


  1. रावणास्त्राणि – रावणक्षिप्तानीति शरजालविशेषणम् । अनेरौणादिकखन् ।
    'रावणास्तानि' इति पाठस्तु सुगम एव-ति.
  2. सवणास्थानि-ङ
  3. कुड:-ङ,
  4. शत्रोनिंधन-ज.
  5. शिलीमुखैः शिली – शस्त्रं मुखे येषां तेः बाणेः- गो.
  6. जानकीव्यथादर्शनेन स्वसंकटा चिन्तनम् ।