पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
4
[अरण्यकाण्डः
मुनिगणशरणागतिः



[१]मस दृष्टा राघवः श्रीमान् तापसाश्रममण्डलम् ।
अभ्यगच्छन्महातेजाः [२]विज्यं कृत्वा महद्धनुः ॥ ९ ॥

 विज्यं कृत्वेति । आश्रमवर्तिमृगपक्षित्रासनिवृत्त्यर्थमिति शेषः ॥

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ||
[३]अभ्यगच्छंस्तथा प्रीताः वैदेहीं च यशस्विनीम् ।। १० ।।

 दिव्यज्ञानोपपन्ना इति। निज कुलदैवत श्री मदादिगुरुब्रह्मणः स्वशक्तिशुद्धयर्थावतारो रामः, स त्वागमिष्यतीह, वार्षष्यति च रावणमिति त्रिकालज्ञानोपपन्नाः इत्यर्थः । यशस्विनीमिति । दृष्टवन्त इति शेषः ॥ १० ॥

[४]ते तं सोममिवोद्यन्तं दृष्ट्वा वै [५].धर्मचारिणः ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥ ११ ॥

 उद्यन्तं सोममिव दृष्ट्वति – तद्वत् प्रियदर्शनम् । " सोमोड- स्माकं ब्राह्मणानां राजा" इति श्रुतेः । स्वकुलरक्षक सोमराज- बुद्धया च दृष्ट्वेत्यर्थः । अत एव वक्ष्यमाणरक्षाप्रार्थनोपपत्तिः । मङ्गलानि - आशीर्वचनानि प्रयुञ्जानाः प्रत्यगृह्णन्- कुलदेवताबुद्ध्या प्रतिगृहीतवन्तः । येन क्रमेण अस्माभिः व्याख्यायते अयमेव






4

  1. तत्- ङ.
  2. विनीतत्रेषप्रवेशत्वादाश्रमाणां - गो.
  3. इदम नास्ति-झ.
  4. एतदर्थानन्तरं लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् इत्यधिकं - ङ. झ
  5. धर्मचारिणम्-ज