पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७ सर्ग:]]
326
सुस्वैतत् कुपिता सीता नीत्या धिकृय रावणम्

सत्यसन्धं [१]महाभागं अहं राममनुव्रता ।

 न्यग्रोधपरिमण्डलं -न्यग्रोधवत बहुशाखबन्धुस्तीमं, तदूत सर्वाश्रयणीयं च 11

"महाबाहुं महोरस्कं [२] सिंहविक्रान्तगामिनम् ॥ ३४ ॥
नृसिंहं सिंहसंकाशं अहं राममनुव्रता ।

 सिंहस्य विक्रान्तः– पदविक्षेपः तथा । पदविक्षेपवत् गमन- शीलमित्यर्थः ॥ २४ ॥

पूर्णचन्द्राननं रामं [३]राजवत्सं जितेन्द्रियम् ॥ ३५ ॥
पृथुकीर्ति महात्मानं अहं राममनुव्रता ।

 राजवस्सं–दशरथपुत्रम् । राजः चासौ वरसश्रेष्ठः तरु मजतीति मन्दभाक् ॥ ३७ ॥

त्वं पुनः जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् ।। ३६ ॥
नाहं शक्या त्वया स्प्रष्टुं आदित्यस्य प्रभा यथा ।
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक ॥ ३७ ॥
राघवस्य प्रियां भार्या यस्त्वमिच्छसि [४]रावण !

 काञ्चनपादपदर्शनं मुमूर्षुलक्षणम् । मन्द –क्षणं आयुरादिकं तरुणश्चेत्यपि ॥

क्षुधितस्य हि सिंहस्य मृगशत्रोः तरखिनः [५].॥ ३८ ॥


  1. महानाहु-ङ.
  2. सिंहत् सगर्वगमनशीलम् -ति. गो.
  3. राजीवाक्षं- ङ.
  4. राक्षम-ज.
  5. " एतदनन्तरं ." आस्य प्रविश्य तरसा जिह्वामाइर्तुमिच्छसि वल्मीकान्ताद्विनिस्सृत्य प्रत्याशं वीक्षितस्य च ॥ " यधिकं-ड