एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अरण्य काण्ड:
रावणप्रलोभनम्
प्रसोत्यादि । रावण: बघाय-स्वनाशसंपादनाय तस्याः प्रसह्य हरणे मनः घृतं—निश्चितं समर्पयामास- सम्यक् कृतवान् इत्यर्थः ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे षट्चत्वारिंशः सर्गः
सुवेषं - शोभनाकारम् । मृगयां प्रति गतः मृगयागतः । हरितं - श्यामम् । छल(३७) मानः सर्गः ॥ ३७ ॥
इति श्रीमद्रामायणामृत कतकटीकायां अरण्यकाण्डे षट्चत्वारिंशः सर्गः
सप्तचत्वारिंशः सर्गः
[ रावणप्रलोभनम् ]
अथ सीता सत्कृत्य, का ? कस्य ? इत्यादिप्रश्नस्य उत्तरमुक्ता, तस्मिंश्च पृष्ट, तेन च स्वतत्त्वे स्वागमनप्रयोजने चाभिहिते, सीता रोषात् पारुष्यमकरोत् । रावणेनेत्यादि । आत्मानं जिहीर्षता रावणेन तथा पृष्टा- पूर्वसर्गोक्तरीत्या पृष्टा वैदेही आत्मना स्वयमेव आत्मानं शशंस ॥ १॥