एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६ सर्ग:
317
नियाग्रस्मात् प्रदेशात् दाक् इत्युक्त्ता तेन पापिना
पाद्येनामिनिमन्त्र्येति । सत्कृत्येत्यर्थः । तदा - पाद्यप्रदानानन्तर- काले सौम्यदर्शनं तं सिद्धमित्येवाब्रवीत् - सर्व पक्कमित्येवाब्रवीत् ॥ ३३ ॥
पात्रं - यतिपात्रम् | कुसुम्भं कुपुम्भवस्त्रं च घरतीति तथा । ‘‘अशक्यं उद्देष्टुं उपायदर्शनात् न्यमन्त्रयत् ब्राह्मणवत्तथागतं” इति पाङ्कः । उपायानां - ब्राह्मणत्व प्रतिपत्त्यै रावणेन रचितानां काषायदण्डब्रह्मघोषा- दीनां दर्शनात् उद्देष्टुं-द्वेषं कर्तुं, उच्छव्दात् उपेक्षितुमशक्यं अनुचितं तथागतं-तथावेषं प्राप्तवन्तं ब्राह्मणवदेव न्यमन्त्रयत्-सीता सत्कृतवती ॥
इयं बृमी, ब्राह्मण ! काममास्यतां
इदं च पाद्यं प्रतिगृह्यतामिति ।
इदं च सिद्धं वनजातमुत्तमं
[३] त्वदर्थं अव्यग्रमिहोपभुज्यताम् ॥ ३५ ॥
तस्यैव प्रकारः - इयं बृसत्यादि । सिद्धं वनजातमिति । पक्क वन्यपदार्थजातमित्यर्थः ॥ ३५ ॥