एतत् पृष्ठम् अपरिष्कृतम् अस्ति
250
[अरण्यकाण्ड:
मारीचसहायप्रार्थना
ते विदानीं जनस्थाने [१]वसमाना महाबलाः।
किं ततः ! इत्यतः चतुर्दशेत्यादि । यानि सन्ति ते त्विदानीमित्यन्वयः | वसमानाः -- वसन्तः इति यावत् ॥ ५ ॥
[२][३]सङ्गताः परमायत्ताः रामेण सह संयुगे ॥ ६ ॥
नानाप्रहरणोपेताः खरप्रमुख राक्षसाः ।
तेन संजातरोषेण रामेण रणमूर्धनि ॥ ७ ॥
[४]अनुक्ता परुषं किंचित् शरैर्व्यापारितं धनुः ।
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् || ८ ||
निहतानि [५] शरैस्तीक्ष्णैः मानुषेण पदातिना ।
खरश्च निहतः संख्ये दूपणच निपातितः ॥ ९ ॥
[६] हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ।
किंचिदपि परुषमनुक्ता धनुः शरैः-शरमोक्षणव्यापारैः व्यापारितं संजातव्यापारं कृतम् ॥ ९ ॥
- ↑ वर्तमाना-ङ.
- ↑ संयुगे रामेण सह संगता: इत्यन्वयः
- ↑ संयता:-ड.
- ↑ अनेन रामगाम्भीर्य, स्वपक्षीयाणांअवमानाधिक्यं च सूच्यते ।
- ↑ शरैदीप्तै:- ज.
- ↑ इत्वा त्रिशिरसं चापि-ज.
- ↑ अशील:-ज.
- ↑ 'त्यक्ता धर्ममधर्मात्मा-ङ.
- ↑ यद्यपि शूर्पणखया 'आयीत्वे च तवानेतुमुद्यताऽहं
वराननाम् । विरूपिताऽस्मि' (३४-२१) इत्युक्तम् । परन्तु तया स्वस्वार्थनिगूहनाव,
रावणार्थमेव स्वप्रवृत्तिरिति कथनाच रावणः एवं वदति - ↑ मास्थाय-ज.