पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ सर्ग:] मारीचेनाचितो बत्रे सहायं तं पुनबँकात् षट्त्रिंशः सर्गः [मारीचसहायप्रार्थना] मारीच ! श्रूयतां, तात ! वचनं मम भाषतः । आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः ।। १ ।। अथ रावणेन स्वागमन कार्यनिवेदनम् । मारीचेत्यादि । ताते- युपलालने ॥ १ ॥ fuse Barsest 6 जानीषे त्वं जनस्थाने यथा भ्राता खरो मम । 3 दूपणश्च महाबाहुः स्खसा शूर्पणखा च मे ॥ २ ॥ त्रिशिराश्च महातेजाः राक्षसः पिशिताशनः । अन्ये च बहवः शूराः *लब्धलक्षा 'निशाचराः ॥ ३ ॥ वसन्ति मन्नियोगेन । अधिवासं च राक्षसाः । बाधमाना महारण्ये मुनीन् वै धर्मचारिणः ॥ ४ ॥ कर्तव्यं वदिष्यन् पूर्ववृत्तान्तं स्मारयति - जानीष इत्यादि । 249 आत्रादयो मन्नियोगात् जनस्थानं किलेत्यन्वयः । अथ तत्र स्थित्वा प्राप्य वसन्तीति त्वं जानीषे क्रियमाणं वृत्तान्तं जानीषे इत्याह – अधिवासं चेत्यादि । मुनीन् बाघमानाः, हेतौ शानच्, बाघहेतवे अधिवासं च कुर्वन्ति, मन्नियोगेनेति शेषः ।। २-४ ।। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम् ॥ ५ ॥ '

लब्बलक्षा:- लब्धयुद्धोत्साहा:-ति. रा. अधिवास: उपद्रव इति कतकः । रतिवास' इति पाठे रत्या- प्रीत्या वासः यस्मिन् कर्मणि तथा-ति. अधिवासं -निरन्तरव सं वत्स-ङ. वसन्ति - कुर्वन्ति - रा. WIEKS 2 जनस्थानं-ज. रतिवासं, रतिवासाथ-ङ, 3 महातेजाः-ङ. 5 नित्यवास, तन्निवासं, महाबलाः-ख.