पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५ सर्ग:]
243
कान्त्वार्णवं ययौ शीघ्रं आकाशे रथमास्थितः



कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।
विद्युन्मण्डलवान् मेघ: [१] सबलाक इवाम्बरे ॥ १० ॥

 विद्युमण्डलवान् इति । विद्युत्स्थाने आभरणानि, मेघस्थाने 'रावणः, बलाकास्थाने अलङ्कृतरथः ।। १० ।।

[२]सशैलसागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैः अनुकीर्णं सहस्रशः ॥ ११ ॥

 शैलैः सहितः सागरस्यानूपः तथा । तस्यैव वर्णन - पुष्पफलैरित्यादि ॥ ११ ॥

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ।
विशालैराश्रमपदैः वेदिमद्भिः समावृतम् ॥ १२ ॥
 [३]कदल्यटविसंवाधं नालिकेरोपशोभितम् ।
सालैस्तालैस्तमालेच पुष्पितैस्तरुभिर्वृतम् ॥ १३ ॥

 कदल्यटवी - कदलीवनम् ॥ १३ ॥

अत्यन्तनियताहारैः शोभितं परमर्षिभिः ।
नागैः सुपर्णैः गन्धर्वैः किन्नरैश्च सहस्रशः ॥ १४ ॥

 अत्यन्तं-अतिशयेन पर्णवातादिना नियतः आहारः यैस्तथा ॥

आजवैखानसैर्मापैः बालखिल्यै मेरीचिपैः [४]
जितकायैश्च सिद्धैश्च चारणैरुपशोभितम् ।। १५ ।।

 आजैः – ब्रह्मपुत्रैः अयोनिजैः वैखानसैः । तथा प्रसिद्धास्ते । ये नखाः, ते वैखानसाः ” ॥ १५ ॥

  1. सबलाक:-बकषङ्किसहितः -- रा.
  2. सशैल-ङ.
  3. कदल्याडकि-ङ.
  4. मरीचिपैः- रवि किरणपान प्रतनिष्ठैः-गो.