पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
243
[ अरण्यकाण्ड :
मारीचाश्रमपुनर्गमनम्



यानशालां ततो गत्वा [१][२] प्रच्छन्नं राक्षसाधिपः ।
सूतं संचोदयामास रथः संयोज्यतामिति ॥ ४ ॥

 प्रच्छन्नमिति दुष्प्रवृत्तितो दृष्टश्रुतिनिगेघशङ्कया ॥ ४ ॥

एवमुक्तः क्षणेनैव सारथिलघुविक्रमः
रथं 2 संयोजयामास तस्याभिमतमुत्तमम् ।। ५ ।।
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।
पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ॥ ६ ॥

 पिशाचवदनैगित । देवयोनिभेदाः पिशाचाः । तत्सदृशैरित्यर्थः ॥ ६ ॥

वदनभागे

 [३] मेघप्रतिमनादेन स तेन धनदानुजः
राक्षसाधिपतिः श्रीमान् ययौ [४] नदनदीपतिम् ॥ ७ ॥

 नदानां नदीनां च पतिः समुद्रः ॥ ७ ॥

स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः ।
स्निग्धवैडूर्यसङ्काशः ततकाञ्चन [५]कुण्डलः ॥ ८ ॥
विंशजो दशग्रीवः दर्शनीयपरिच्छदः ।
त्रिदशारिर्मुनीन्द्रमः दशराज -ङ,दशशीर्ष इवाद्रिराट् ।। ९ ।।



  1. प्रच्छन्न इंति । प्रकाशश्चेद्वृद्धा मन्दोदर्यादयश्च वारयिष्यन्तीति भावः । यद्धा पौरुषं विहाय चौर्यमार्गश्रयणं लज्जावहमिति प्रच्छन्नमार्गाश्रयणम् । यद्वा-ततः -सचिवान् तदानीं सभास्थितान् विसृज्य च स्वयं कार्य बुद्धेत्यर्थः अत एव सचिवैः पर्यालोचनाभावात् प्रच्छन्न इत्युक्तम् । अत एव कुम्भकर्णादिभिरुच्यते सचिवरमन्त्रयित्वा कृतस्य कथमिदानीं प्रतीकार इति-गो.
  2. प्रच्छन्न:-ड.
  3. मेघप्रतिमवचने नोपलक्षित:-रा.विमानविशेषणं वा.
  4. नदनदीपति तीर्त्वा ययौ-ति.
  5. भूषण:- ज.