एतत् पृष्ठम् अपरिष्कृतम् अस्ति
224
[अरण्यकाण्ड:
रावणाकम्पनसंवादः
सीतेति केनाख्याता --उपायत्वेनेति शेषः । त्वयेत्यादि । हे राक्षसशार्दूल ! त्वया निन्दितः कः त्वां न नन्दति न संतुष्यति- क्रुध्यति शत्रुर्भवतीति यावत् । कस्ते अभिहितः सीतामिहानयस्वेति ब्रवीति तं मे ब्रवीहि । इट् छान्दसः ॥ ४२ ॥
शृङ्ग:- -औन्नत्यम् || ४३ ।।
आशीविषमुखात् दंष्ट्रां उद्धर्तुं चेच्छति त्वया ॥ ४४ ॥
कर्मणा तेन केनासि कापथं प्रतिपादितः ।
सुखसुप्तस्य ते, राजन्! प्रहृतं केन मूर्धनि ॥ ४५ ॥
स हि शत्रुरसंशयं इत्यत्र हेतुमाह- -आशीविषेत्यादि । यस्मात् त्वया प्रयोज्येन आशीविषमुखात् दंष्ट्रां उद्धर्तु-- उद्धारयितुं इच्छति, तस्मादेव । कर्मणा तेनेति । पापकर्मणेति यावत् । केनेति । शत्रुणेति कापथं—कुमार्गं । ; का पथ्यक्षयोः इति कोः कादेशः । ते मूर्ध्नि प्रहृतमिति । वृथैव दुःखमुत्पादितमित्यर्थः [७] ॥ ४४-४५ ॥
- ↑ सीता केन आख्याता -हर्तव्यत्वेन कथिता-ति. यः सीताया आख्याता स मित्ररूपः शत्रु:-गो
- ↑ सीता सा-ङ. वा सीता-ज.
- ↑ शृङ्गं - प्राधान्यम् - गो. मुख्यं त्वां- रा. शृङ्गं रक्षणसाधनं रक्षोलोकरक्षणरहितं कः चिकीर्षतीत्याशयः ।
- ↑ मर्हति-ङ.
- ↑ यश्च स्वां-ड.
- ↑ शत्रुत संशय:-ङ.
- ↑ वस्तुतस्तु त्वयि अजागरूके केन वा त्वं मारित:- सीतापहारे तव मृतिः सिद्धैवेत्याशयः ।