पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
left३१ सर्गः}
223
प्रेरितोऽकम्पनेनैवं मारीचं द्रष्टुमागमत्{


स रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान् ।
[१]चञ्चूर्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ ३५ ॥

 चञ्चूर्यमाणः – सञ्चरन् । चरेर्यङन्तात् शानच् । 'चरफलोश्च । उत्परस्यातः ।' इति नुगुत्वे । जलदस्थानं गगनं, चन्द्रस्थानं रथः ॥

[२] स मारीचाश्रमं प्राप्य ताटकेयमुपागमत् ।
मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः [३] ॥ ३६ ।।

 मारीचा श्रममित्यनेन सः तदानीं तपस्तेपे पूर्वं रामनिरस्तः तदुःखादिति गम्यते । ताटकेयम् । 'स्त्रीभ्यो ढक्' || ३६

तं स्वयं पूजयित्वा तु आसनेनोदकेन च ।
[४] अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ॥ ३७॥
[५] कञ्चित् सुकुशलं, राजन् ! लोकानां, राक्षसेश्वर ! ।
आशङ्के [६] नाघिजाने त्वं, यतस्तूर्णमिहागतः ॥ ३८ ॥

 लोकानां – राक्षसलोकानाम् । 'आशङ्के नाथ जाने त्वं' इति पाकः पाठः । भयं आशङ्के, अथ क्षेमं न जाने - नावगच्छामीत्यर्थः कुतः इत्यतः - यत इत्यादि । एकाकीति शेषः ॥ ३८ ॥

एवमुक्तो महातेजाः मारीचेन स रावणः ।
ततः पश्चादिदं वाक्यं अब्रवीत् वाक्यकोविदः ॥ ३९ ॥
[७] आरक्षो मे हतस्तात ! रामेणाक्लिष्टकर्मणा ।
जनस्थानमवध्यं तत् सर्वं युधि निपातितम् ॥ ४० ॥
तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ।

 आरक्षः - समाजस्थानभूतं जनस्थानम् ॥ ४० ॥



  1. संचार्यमाणः- ङ.
  2. 'स दूरे चाश्रमं गत्वा-ज.
  3. अमानुषैः- मनुष्यलोकदुर्लभैः-गो.
  4. अर्थोपहितया - अर्थविशेषगर्भितयेति यावत् ।
  5. लोकानां - राक्षसलोकानां,राक्षसेश्वरेति सममिव्याह। रादयमथों लभ्यते-गो.
  6. नाथ जाने-ड. ज.
  7. भारक्षः - अन्तपाल:-गो. सर्वतो रक्षणकर्ता खरादिः - रा.