पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
214
अरण्यकाण्ड:
खरसंहारः



[१] एतदर्थ महातेजाः महेन्द्रः पाकशासनः ॥ ३० ॥
शरभङ्गाश्रमं पुण्यं आजगाम पुरन्दरः ।

एतदर्थमिति । एतद्रक्षोवधाय एतद्देशप्रस्थापन नियोजनार्थ-मित्यर्थः । क्षणं स्थित्वा रामं प्रस्थाप्य भवद्भिः ब्रह्मलोकाय प्रस्थातव्यमिति मघवतोक्ताऽऽगतमित्यर्थः ॥ ३० ॥

आनीतस्त्वमिमं देशं [२]उपायेन महर्षिभिः ॥ ३१ ॥
एषां वधार्थ [३] क्रूराणां रक्षसां [४]पापकर्मणाम् ।
तदिदं नः कृतं कार्यं त्वया, दशरथात्मज ! ॥ ३२ ॥
सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः ।
एतस्मिन्नन्तरे देवाः चारणैस्सह सङ्गताः ।। ३३ ।।
दुन्दुभींचामिनिघ्नन्तः पुष्पवर्षं समन्ततः ।
रामस्योपरि संहृष्टाः ववृषुः विस्मितास्तदा ।। ३४ ।।

 एतस्मिन्नन्तर इति । ऋषिभिः वृत्तान्तकथनावसरे इत्यर्थः ॥

अर्धाधिक मुहूर्तेन रामेण निशितैः शरैः ।
चतुर्दश सहस्राणि रक्षसां [५]भीमकर्मणाम् ।। ३५ ।।
खरदूषणमुख्यानां निहतानि महाहवे ।



  1. क्षणं स्थित्वा रामं प्रस्थाप्य भवद्भिः ब्रह्मलोकाय प्रस्थातव्यं इति इन्द्रः
    अगस्त्येन च शरभङ्गं प्रति उक्ता गत इत्याशय:- ति. शरभङ्गेण हि सुतीक्ष्णामिगमनं ( 5, 36 ) उपदिष्टम् । सुतीक्ष्णेन च अगस्त्याभिगमनं (11, 36-37) उक्तम् । ऐन्द्रशरा तनादिदानपूर्वकं पञ्चवटीनिवासः उपदिष्ट: साभिप्रायमेव (13, 12-18)। एवञ्च राक्षसवधायैव रामः देवैः ऋविभिश्च उपायेनानीत: पचवटीमिति गम्यते । एतदेव 'ततो राजर्षयः' - इत्यारभ्य चतुर्भिः श्लोकैः कथ्यते ।
  2. उपायेन-तत्तदाश्रमदर्शनव्याजेन गो.
  3. शूराणां-ङ.. शत्रूणां-ज.
  4. क्रूरकर्मणाम्-ड..
  5. कामरूपिणाम् च. ज.