पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३० सर्गः ]
218
निहतं च खरं दृष्ट्वा देवा: राघवमस्तुवन्



 शररामिना दह्यमानः इति । तस्य ब्रह्मतेजोरूपत्वात् । एवं खरदूषण त्रिशिरः परिणतवैराजसूक्ष्म त्रिमलस्य च सर्वान्तसंहारे ब्रह्मणो रामस्य रावणादिस्थूलत्रिमलसंडारे ब्रह्मास्त्रवत् ब्रह्मदत्तारूय- खशक्तिरेव परमसाधनं न त्वाविष्टवैराजक्षात्रशक्तिरिति सुस्पष्टं ब्रह्मत्वं रामस्य । श्वेतारण्ये यथाऽन्धकः इति पाङ्कः । श्वेतारण्ये अन्धका- रूयोऽपुरः रुद्रेण प्रहतः इति पुराणसिद्धम् ॥ २७ ॥

[१]स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ॥ २८ ॥
[२]बलो वेन्द्राशनिहतः निपपात हतः खरः |

 वृत्रः वज्रणेव, नमुचिः फेनेनेव च हतः इति । " न मा शुष्केण नार्द्रेण हनः "अगं फेनेन शिर उदवर्तयत् इत्यन्तश्रुत्या प्रसिद्धोऽयमर्थः । तथा वज्र शनिहतो बलो वेति । इदं च पुराणप्रसिद्धम् । एवं रुद्रेन्द्र साध्य संहारान्धका विचतुर्दृष्टान्त-कथनेन कविना कथमपि रामब्रह्मातिरिक्तन केनापि दुःसंहारराक्षसत्वं खरस्य प्रकाशितम् ॥ २८ ॥

 [३]ततो राजर्षयः सर्वे [४]सङ्गताः परमर्षयः ॥ २९ ॥
[५]सभाज्य मुदिता रामं [६]इदं वचनमब्रुवन् ।

 राजर्षयः - नहुषाद्याः । परमर्षयः – भृग्वाद्याः ब्रह्मर्षयः । राम सभाज्य – संपूज्य ; " वरिवस्या सर्या च पूजनं च सम जनम् ॥”



  1. अमोघबाणहतस्वशापनाय प्रथमो दृष्टान्त:, लीलया हतत्वज्ञापनाय द्वितीयः,
    धिष्ठितत्वज्ञापनाय तृतीयः । आर्द्रात् शुष्काच्चावध्यत्वं नमुचेलब्धम् तदर्थ फेनेन
    बलो वेति । वाशब्दः इवार्थकः - गो.
  2. बलो यथाऽशनिहत:-ङ.
  3. एतदारभ्य दशश्लोकानां पौर्वापर्ये मेव ज. पुस्तके दृश्यते ।
  4. संगताच महर्षयः- ङ.
  5. समेत्य ड.
  6. सागरस्या इदमब्रुवन्-ड..