पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
206
[अरण्यकाण्ड:
खरगदामेदनम्



इत्युक्ता परमक्रुद्धः तां गदां [१][२] परमाङ्गदाम् ।
खरः चिक्षेप रामाय प्रदीप्तामशनिं यथा ॥ २५ ।।

 तां गदां परमाङ्गदां' इति पाः । परमोऽङ्गदः- कनकवलयः यस्याः सा तथा ॥ २५ ॥

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा ।
भस्म वृक्षांच गुल्मांच कृत्वाऽऽगात् तत्समीपतः ॥ २६ ॥

 वृक्षान् गुल्मांश्च भस्म कृत्वा । स्वज्वालयेति शेषः ।। २६ ।।

तामापतन्तीं [३] ज्वलितां मृत्युपाशोपमां गदाम्
अन्तरिक्षगतां रामः चिच्छेद बहुधा शरैः ॥ २७ ॥

 तदेवोक्तं तामापतन्तीं ज्वलितामिति ॥ २७ ॥

सा [४] विकीर्णा शरैर्भग्रा पपात धरणीतले ।
गदा मन्त्रौषधबलैः [५] व्यालीव विनिपातिता ॥ २८ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकोनत्रिंशः सर्गः


जीर्ण (२८) मानः सर्गः ॥ २८ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकोनत्रिंशः सर्गः



  1. परमाङ्गदः - गदाप्रहारसामर्थ्यविरुदयुक्त इत्यथ:- गो.
  2. पर मानदः-ज..
  3. महर्ती-अ. सहसा-ड..
  4. विशीर्णा-अ.
  5. गदाशब्दस्य स्त्रीलिङ्गत्यात् व्यालीवेत्युक्तम् । सर्पस्त्रियः विषाधिक्यमपि लोके प्रसिद्धम् ॥