एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्ग: ]
205
चिक्षेप च गदां घोरां रामायामर्षितः खरः
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् |
घराघरमिवा कम्प्यं पर्वतं [१] धातुभिश्चितम् ॥ २१ ॥
अथैवं विकत्थने हेतुः अयमेव ते इत्याह - न तु मामित्यादि । उच्यमानविशेषणकं मां न पश्यसि सारतो नावगच्छसीति यत् अत एव एवं विकत्यसे इत्यन्वयः ॥ २१ ॥
पर्याप्तोऽहं गदापाणिः हन्तुं प्राणान् रणे तव ।
[२]त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२ ॥
स्वकं सारं दर्शयति–पर्याप्त इत्यादि । गदापाणिरिति । अमोघ- गदाहस्तः इत्यर्थः ॥ २२ ॥
हतानीति । ते- त्वयेति यावत् । यानि हतानि तेषां स्त्रीपुत्रादिबन्धूनां अश्रुप्रमार्जनं - अश्रुषारापरिमार्जनं करिष्यामि ॥ २४ ॥
- ↑ धातुमण्डितम्-ङ.
- ↑ त्वयि एवं आत्मानं श्लाघयितुः तब विषये। |
- ↑ ।यद्यपि स्वस्य रात्रिबेलायैव, तथाऽपि राज्यशक्तमनुष्यवधे स्वस्य न काऽपि कीर्तिरिति खरहृदयम्-गो. |
- ↑ प्राप्नोति-ज
- ↑ एतदनन्तरं - " अग्रतः संस्थितं इहा स्वां मनो रुष्यते मम । रणे यस्य तु रुष्यामि मुहूर्त न स जीवति ॥ मम हवाऽप्रियं राम दुर्लभ तत्र जीवितम् । तोयवर्षमिवावर्षे तोयदस्य विनर्दतः ॥ प्राप्नोति-ज।
- ↑ करोम्बद्य-ज.
- ↑ एतदनन्तरं --"ततो रुधिरभारामिः त्वच्छरीर-विमर्दनात् करिष्यामि बर्लि भूमौ त्वां हत्वा सर्वरक्षसाम् ॥ " – इत्यधिकम्-ड..