पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९ सर्ग:]
203
गईयामास व खरः रामं मृत्युमुखे स्थितः



प्रहर त्वं यथाकामं कुरु यत्नं, कुलाधम !
अद्य ते पातयिष्यामि शिरः तालफलं यथा ॥ १४ ॥

 कुलाधम- कुलेन अषम ॥ १४ ॥

एवमुक्तस्तु रामेण क्ऱुद्दाः संरक्तलोचनः ।
प्रत्युवाच [१] खरो रामं प्रहसन् क्रोधमूर्छितः ॥ १५ ॥
प्राकृतान् राक्षसान् हत्वा युद्धे, दशरथात्मज !
आत्मना कथमात्मानं अप्रशस्यं प्रशंससि ॥ १६ ।।
विक्रान्ताः बलवन्तो वा ये भवन्ति नरर्षभाः ।
कथयन्ति न ते किञ्चित् तेजसा स्वेन गर्विताः ।। १७ ।।

 गर्विताः न कथयन्तीत्यन्वयः ॥ १७ ॥

प्राकृतास्त्वकृतात्मानः लोके क्षत्रियपांसनाः ।
निरर्थकं विकत्थन्ते यथा, राम ! विकत्थसे ॥ १८ ॥
[२].कुलं व्यपदिशन् वीरः समरे [३] कोऽभियास्यति ।
१ मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे कथम् ।। १९ ॥

 को वीर: कुलं व्यपदिशन् भूत्वा समरेऽमियास्यति-अभियानं कुर्यात् । न कोsपि । इदं च वचनं 'अहमासादितो राजा' इति रामेणोक्तत्वात् उक्तवान् । अप्रस्तवे इति । 'प्रेद्रुस्तुस्रुवः' इति पनभावः आर्ष: । अप्रस्तावे इति यावत् ॥ १९ ॥



  1. ततो-ज.
  2. कुलं व्यपदिशन् - कुलीनत्वं प्रकटयन् मृत्युकाले-तत्तुल्यकाले संप्राप्ते अप्रस्तवे-
    स्तवरूपं वचनं कोऽभिधास्यति; न कोऽपीत्यर्थः । 'अहमासादितो राजा
    विभास्यति - ङ.इति रामणॉक्त्त्वात् उक्तवान् - ति. कुलं व्यपदिशन्-आत्मनो महाकुलप्रसूतत्वं प्रकटयन् को बीर: मृत्युकाले संप्राप्ते अप्रस्तवे--अनवसरे स्वयं स्तवम भिषास्यति - गो
  3. कोऽमिधास्यति- ङ. ज. को विचारयति ङ