एतत् पृष्ठम् अपरिष्कृतम् अस्ति
202
अरण्यकाण्ड:
खरगदामेदनम्
राजेत्यनेन दुष्टनिग्रहाधिकारः स्वस्य द्योत्यते । आसादित इति । ऋषिभिरिति शेषः । इममर्थ आराद्वषयो वक्ष्यन्ति ॥ १० ॥
[४] अद्य भित्वा मया मुक्ता: शराः काञ्चनभूषण: |
विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ ११ ॥
अद्येत्यादि । भित्त्वा–त्वद्वपुरिति शेषः । विदार्येति । भूमिमिति शेषः ।। ११ ।।
- ↑ नचिरात् – अचिरादित्यर्थ: ।
- ↑ राक्षा – पित्रा अहं आसादित: - व प्रापितः । राजेति पाठेऽपि क्विबन्तत्वेन स एवार्थ:-रा. आसादितोऽस्मि प्राप्तोऽस्मि-गो
- ↑ राशा-च. ज.
- ↑ अध्य हि त्वां-ड.
- ↑ तान् अनुगमिष्यसीत्यन्वयः पापिनामपि समरे हतानां स्वर्गसंभवादिति भाव:- गो
प्राणत्याग मात्राभिप्रायेण वा अनुगमनोक्तिः ॥ - ↑ पतितं-ड..
- ↑ ननु भगवता इतस्य मृतिसमये भगव
दर्शनवतः कथं निरयस्थत्वमिति चेन्न। अत्युग्रस्य ब्रह्मवधकर्मण: फलस्य अवश्यंभोक्तव्यस्त्रे
आदौ भगवदिच्छ्यै निरयभोगपूर्व उत्तमपदप्राप्ते: सवेन अदोषात्-ति. निर्गत
अयः -- पुनरिह लोके पुत्रपौत्रादिदर्शनार्थ गमनं यस्मात्,तल्लोकविशेषस्थर
नरकसदृशं दुःखमनुभवन्तं - गो. ॥ ये त्वया पुरा हिंसिताः परमर्षयः ते अद्य विमानस्थ
निहतं ततः निरयस्थं च पश्यन्तु इत्यन्वयः । - ↑ निहताः-ज.