पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
200
[ अरण्यकाण्ड:
खरगदामेदनम्



एकोनत्रिंशः सर्गः

[खरगदाभेदनम्]

खरं तु विरथं रामः गदापाणिमवस्थितम् ।
[१]मृदुपूर्व महातेजाः परुष वाक्यमब्रवीत् ॥ १ ॥

 अथ पदातिरामखरयुद्धम्। खरं त्वित्यादि । मृदुपूर्वमिति । न्यायावलम्बनतो मृदूक्तिपूर्व परुष-पारुण्यार्थकं वाक्यमित्यर्थः ॥ १ ॥

[२] गजाश्वरथसंबाधे बले महति तिष्ठता।
कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ २ ॥

 त्वत्कृतान्यायवशात् त्वं अद्य विनंक्ष्यसीति प्रतिपादन शेषतया सामान्यतो लोकस्थितिमाह — गजाश्वेत्यादि । बले तिष्ठतेति । बलविषये स्वामित्वेन तिष्ठतेत्यर्थः ॥ २ ॥

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि [३] लोकानां ईश्वरोऽपि न तिष्ठति ॥ ३ ॥

 एवंरूपेण पुरुषेण यत् सुदारुणं कर्म कृतं भवति, तत् सर्व लोकजुगुप्सितं निन्द्यं भवति । नाप्यसौ सुखमिह लोकेऽपि प्राप्नोती-त्याह — उद्वेजनीय इत्यादि । उद्वेजनीयत्वादिगुणकोऽसौ न तिष्ठति- न चिरस्थितिं प्राप्नोति ॥ ३ ॥

कर्म लोकविरुद्धं तु कुर्वाणं, क्षणदाचर !
तीक्ष्णं [४] सर्वजनो हन्ति सर्प दुष्टमिवागतम् ॥ ४ ॥

 तदेव दर्शयति – कर्मेत्यादि । क्षणदाचरेति संबुद्धिः ॥ ४ ॥



  1. शब्दस्वरदृष्टया मृदुत्वं, अर्थदृष्टया तु परुषत्वम् ।
  2. स्वयं तु एक एव स्थादि-रहितः - इत्यभिप्रायेण तद्विपरीततया सहायसंपत्तिमत्वं उपहसत्येवम् ।
  3. लोकाना-मीश्वरोऽपि-तावच्छक्तः सन्नपीत्यर्थः ।
  4. सर्वजनो हन्ति-अकृतापकारोऽपि इन्ति-ति,सर्वजन इति । दयालुरपीति भाव: - गो.