पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८ सर्ग:]
199
तयोः समभवद्धोरं युद्धं तत्र जयैषिणोः



ततः पश्चान्महातेजाः नाराचान् भास्करोपमान् ।
[१]जिघांसू राक्षसं क्रुद्धः त्रयोदश[२] समाददे ॥ २८ ॥
[३] ततोऽस्य [४] युगमेकेन चतुर्भि: [५]चतुरो हयान् ।
षष्ठेन तु [६] शिरः संख्ये [७]खरस्य रथसारथेः || २९ ।।
त्रिभिः त्रिवेणुं बलवान् द्वाभ्यां अक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य [८] सशरं धनुः ॥ ३० ॥
छित्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः बिभेद समरे खरम् ॥ ३१ ॥

उपात्तत्रयोदशानां विनियोगः – ततोऽस्य युगमित्यादि । त्रिवेणुर्नाम रथमुखस्थ: युगाधारदण्डः । अक्षः चक्राबारदण्डः । प्रहसन्निव-लीलयैवेत्यर्थः : । बिभेद खरमिति | हृदयदेशमिति शेषः ॥

प्रभनधन्वा विरथः हताश्वो हतसारथिः ।
गदापाणिरवहुत्य तस्थौ भूमौ खरस्तदा ।। ३२ ।।
तत् कर्म रामस्य महारथस्य
समेत्य देवाश्च महर्षयश्च ।
[९]अपूजयन् प्राञ्जलयः प्रहृष्टाः
तदा विमानाग्रगताः समेताः ।। ३३ ।।

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टाविंशः सर्गः


 महारथस्येति । महारथपरिगणनीयस्येत्यर्थः ॥ ३३ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अष्टाविंशः सर्ग:



  1. जघान-ज.
  2. समादिशव-ड..शिलाशितान्-ज
  3. रथस्य-ज.
  4. युगं – रथस्य युगम् ।
  5. शवलान्-ज.
  6. खरस्य रथसारथेः शिर इत्यन्वयः ।
  7. चिच्छेद खरसारथे:-ज.
  8. सकरं- ज.
  9. कर्म अपूजयन्– प्राशंसन् ।