पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७ सर्ग:]
191
ततः क्रुद्ध: त्रिशिरसं आदिदेश खरो रणे



प्रतिजानामि ते [१] सत्यं [२] आयुधं चाहमालभे ।
यथा रामं वधिष्यामि [३]वधाई सर्वरक्षसाम् || ३ ||

 यथा वषिष्यामि तथा प्रयतिष्ये इति शेषः । सर्वरक्षसामिति । सर्वरक्षोभिरित्यर्थः ॥ ३ ॥

अहं वाऽस्य रणे मृत्युः एष वा समरे मम [४]
विनिवृत्य रणोत्साहात् मुहूर्त प्राश्निको भव ॥ ४ ॥

 प्राश्निकः – मध्यस्थः – उमययुद्धसाक्षीत्यर्थः ॥ ४ ॥

[५] [६]प्रह्रुष्तटो ग्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि ।
माये वा निहते रामं संयुगायोपयास्यसि ॥ ५ ॥

 संयुगाय-संयुगं कर्तुम् । क्रियार्थोपपदस्येति चतुर्थी ॥ ५ ॥

खरः त्रिशिरसा तेन [७] मृत्युलोमात् प्रसादितः ।
गच्छ [८] युध्येत्यनुज्ञातः राघवाभिमुखो ययौ ॥ ६ ॥

 मृत्युना कृतो लोभः – युद्धलोभः तथा । अनुज्ञात इति । करणेति शेषः ।। ६ ।।



  1. सर्व-ङ
  2. वीराणां प्रतिज्ञायां आयुधानि साक्षीक्रियन्त इति प्रसिद्धमेव ।
  3. हितार्थ - ङ.
  4. मम, मृत्यु -रिस्यनुकर्ष्ः।
  5. प्रहृष्टे-गर्विष्ठे-च.
  6. प्रहृष्टे-ड..
  7. मृत्युलोभात् – मृत्युकृतयुद्धलोभाव । मृत्युसमये रक्षः प्रकृतिविपर्ययात् तस्य भगवत्तस्त्वं ज्ञात्वा तद्धस्तमृत्युलोभादित्यर्थश्च-ति.मृत्युलोभात्- मृत्युनिवृत्तिविषयकोत्कटेच्छातः । किन मृत्युलोभात् मृत्युविषयका- विवेकाय, अस्य मृत्युने भविष्यतीति भ्रमादित्यर्थ: रा. मृत्युना कृतः लोम: युद्धलोभः,तरमात्- गो. मृत्युर्वश्चित इति वा भावः ।
  8. युद्धेऽभ्यसुचात:-ङ