पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
190
अरण्यकाण्ड:
त्रिशिरोवधः



ततस्तु तद्भीमबलं महाहवे
समीक्ष्य [१] रामेण हतं बलीयसा ।
रथेन रामं महता खरस्तदा
समाससादेन्द्र इवोद्यताशनिः ॥ ३८ ॥

 इश्याषें श्रीमद्रामायणे बाख्मीकीये अरण्यकाण्डे बर्द्धिशः सर्गः


उद्यता शनिः-- उद्यत वज्रः ॥ ३८ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे पडिशः सर्गः



सप्तविंशः सर्गः

[त्रिशिरोवधः]

खरं तु रामाभिमुखं प्रयान्तं [२] [३]वाहिनीपतिः ।
राक्षसः त्रिशिरा नाम [४] सन्निपत्येदमब्रवीत् ॥ १ ॥

 अथ त्रिशिरोवधः । खरं तु इत्यादि ॥ १ ॥

मां नियोजय, [५]विक्रान्त ! सन्निवर्तस्व [६] साहसात् |
पश्य रामं महाबाहुं संयुगे विनिपातितम् || २ ||

 विनिपातितमिति । मयेति शेषः ॥ २ ॥



  1. धर्मेण - रामेण -रा.
  2. दूषणानन्तर: सेनापतिः इत्यथैः
  3. वाहिनीपतिम्-ड.
  4. सन्निवत्यै ङ
  5. विक्रान्तंच. ज.
  6. साइसात्-सहसा कृतात् निर्धारात् |