पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
178
[अरण्यकाण्ड:
खरसैन्यविध्वंसनम्



एकं सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् ।
ततो रामः सुसंक्रुद्धः [१] मण्डलीकृतकार्मुकः ॥ १६ ॥
ससर्ज [२][३] विशिखान् बाणान् शतशोऽथ सहस्रशः ।
दुरावारान् दुर्विषहान् कालदण्डोपमान् रणे ॥ १७ ॥
मुमोच लीलया रामः कङ्कपत्रान् अजिह्मगान् ।

 दुरावारान्— अशक्यनिवारणान् । दुर्विषहान्-प्राणविमोकं विना केनापि सोढुमशक्यान् ।। १७ ।।

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ॥ १८ ॥
आददू रक्षसां प्राणान् पाशा: [४] कालकृता इव ।

 लीलयेति । सकलप्रपञ्चसंहारब्रह्मस्वभावत्वात् भगवतो रामस्य इयं लीलेत्यविस्मयः। तेजसाऽऽविष्टशब्दवत् लीलयेत्यस्य च अभ्यासः तदर्थतात्पर्यप्रकाशनाय कवेः ॥ १८ ॥

भित्त्वा राक्षसदेहांस्तान् ते शरा रुघिराहुताः ।। १९ ।।
अन्तरिक्षगताः रेजुः दीप्ताग्निसमतेजसः ।

 रुधिरैराप्लुताः – सिक्ताः । अत एव दीप्ताभिसमतेजसः ॥१९॥

असंख्येयास्तु रामस्य सायकाः चापमण्डलात् ।। २० ।।
विनिष्पेतुरतीवोग्राः रक्षप्राणापहारिणः ।

 चापमण्डलादिति । मण्डलाकारतयैव संघानमोक्षणादिशैत्रचवतो दीर्घशाटी भ्रमित कन्दुकास्पन्दनवत् अनुभूयमानात् इत्यर्थः ॥ २० ॥



  1. मण्डलीकृत कार्मुकः -- आकर्षणाकर्षणेन मण्डलाकारीकृतधनु:-गो. बाणेs-ब्वत्यन्तवेगाधानाय सम्यगाकर्षणेन मण्डलीकृतं धनुः येनेति वा ।
  2. विशिखान् बाणान्- अर्धचन्द्रामवाणान्-गो.
  3. निशितान्- ङ. च.
  4. काल:--यमः ।