पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्गः ]
177
स खरो निशितैर्वाणैः रामं भृशमपीडवत्



ते [१] बलाहकसङ्काशाः [२]'महानादाः महौजसः।
अभ्यधावन्त काकुत्स्थं रथैः वाजिभिरेव च ॥ ९ ॥
गजैः पर्वतकूटामै: रामं युद्धे जिघांसवः ।
"ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ।। १० ।।
शैलेन्द्रमिव धाराभिः वर्षमाणा [३] बलाहकाः ।
स तैः परिवृतो घोरैः राघवो रक्षसां गणैः ॥ ११ ॥
[४]
[५] तिथिष्विव महादेवः वृतः पारिषदां गणैः ।
तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥ १२ ॥
[६] प्रतिजग्राह विशिखैः नद्योघानिव सागरः ।
स तैः प्रहरणैः घोरैः भिन्नगात्रो न विव्यथे ।। १३ ।।
[७].रामः प्रदीप्तैः बहुभिः वज्रैरिव [८]महाचलः ।
स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ॥ १४ ॥
बभूव रामः संभ्यां : दिवाकर इवावृतः ।

 बजेवि महाचल: इत्यनेन किञ्चिदूणितत्वं गम्यते । अत एव 'स विद्धः [९]क्षतजादिग्धः' इत्यादि । आदिग्घः- आलिप्तः ॥१४॥

विषेदुः देवगन्धर्वाः सिद्धाश्च परमर्षयः ।। १५ ।।



  1. बलाहकसंकाशा:-मेघसदृशाः ते रथैः वाजिमि: गजैश्व रामं अभ्यषावन्त इति सार्ध श्लोकमेकं वाक्यम् ।
  2. महाकाया महाबला: च. ज.
  3. महाघना:- च. ज.
  4. तिथषु - प्रदोषरात्रिषु - रा. रामस्य, राक्षसानां च मत्युग्रत्वमात्रेऽयं दृष्टान्तः ।
  5. इदमर्थ कुलचिन्नास्ति ।
  6. प्रतिजग्राह - प्रतिरुरोध-गो.तेषां स्पर्धा स्वोचकार--- उत्तरमदादिति यावत् ।
  7. 'इदम कुत्रचिनास्ति - ज
  8. महाबल:- ङ.
  9. क्षतजं– रक्तम् ।