पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ सर्ग:] तथापि कालवशगः न व्यवर्तत राक्षस: प्रचचाल मही सर्वा सशैलवनकानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ १६ ॥ 1.65 प्राकम्पत भुजः सव्यः स्वरश्वास्यावसज्जत । सात्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः || १७ ।। ललाटे च *रुजा जाता न च मोहात् न्यवर्तत । तान् समीक्ष्य महोत्पातान् 'उत्थितान् + रोमहर्षणान् || अब्रवीत् राक्षसान् सर्वान् + ग्रहसन् स खरस्तदा । तान् उत्थितान् महोत्पातान् समीक्ष्यापि मोहात्-अज्ञानात् न न्यवर्तत । युद्धयात्राया इति शेषः ॥ १८ ॥

महोत्पातानिमान् सर्वान् 'उत्थितान् घोरदर्शनान् ॥१९॥ न चिन्तयाम्यहं वीर्यात् बलवान् ऽ दुर्बलानिव । तारा अपि शरैः तीक्ष्णैः पातयामि नभःस्थलात् ॥ २० ॥ मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् । राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥ २१ ॥ अहत्वा सायकैः तीक्ष्णैः नोपावर्तितुमुत्सहे । संकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ।। २२ ॥ रुजा- पीडा-गो. रा. रोमहर्षणान्-रोमाञ्चकरानू - भयजनकानित्यर्थ: । तबुकं साहित्यचिन्तामणौ- "उल्कानिपातनिर्घातव्या लव्याघ्रादिदर्शनैः । उत्पन्न: सहसा चित्तविक्षोभस्त्रास इष्यते । नेत्रसंमीलनोत् कम्पगात्रसङ्कोच गद्गदैः । वैवर्ण्यस्वेदरोमाञ्च सम्भाचैरनुभूयते " — इति - गो. + प्रहसन्नित्यनेन गर्व: सूच्यते । अग्रे तत्कार्यप्रतिशा- माह महोत्पातानिति । तथोक्तं चिन्तामणौ–“कुलरूपवयोविद्याबलैश्वये धनादिमिः । या भवेदात्मनः श्लाघा स गर्व इति कथ्यते । उद्ग्रीवावेक्षणावशाप्रतिज्ञातिर्भवेदिह "- इति- गो. S यथा बलवान् पुरुष: दुर्बलान् स्वप्रतिपक्षभूतान् न गणयेत् तथेत्यर्थः । 3 उदितान्- ङ. उदितान्-ङ. वाहिनीपतिः- रु.