पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
164
अरण्यकाण्ड:
उत्पातदर्शनम्



[१]कबन्धः परिघाभासः दृश्यते भास्करान्तिके ॥ ११ ॥
जग्राह सूर्य स्वर्भानुः अपर्वणी [२] महाग्रहः ।
[३] प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूहिवाकरः ।। १२ ।।
उत्पेतुश्च विना रात्रि ताराः खद्योत [४]. सप्रभाः ।

  उत्सेतुः -उद्द्भुत। बभूवुः ।खद्योतसमप्रभाः इत्यनेन निस्तेजस्त्वं तारल्यं च लक्ष्यते ॥ १२ ॥

संलीनमीनविहगाः नलिन्यः शुष्कपङ्कजाः ॥ १३ ॥
तस्मिन् क्षणे बभूवुश्च [५] विना पुष्पफलैः द्रुमाः
उद्धृतश्च विना वातं रेणुः || जलधरारुणः ॥ १४ ॥
वीचीकूचीति वाश्यन्तः बभूवुः तत्र शारिकाः ।

 उद्धूतः—उत्क्षिप्तः । जलघरारुणः- मेघधूसरः । बीचीकू चीति शब्दानुकारः | वीचीकूचीति वाश्यन्तः; न तु शिक्षितं सवर्णसुशब्द- मित्यर्थः ॥ १४ ॥

॥ उल्काश्चापि [६]सनिर्घाताः निपेतुः घोरदर्शनाः ।। १५ ।।



  1. परिघवत् परिघायुधवत् आभासत इति परिधाभास, कबन्ध: - शिरश्शून्य-मनुष्यकायः भास्करान्तिके - सूर्यस्य समीपे दृश्यते--अदृश्यत । तथोक्तं कामन्दकीये-'सूर्यदृष्टऋबन्धादिर कस्मान्मूढवाहनः' – इति । कबन्धाकार मेघखण्ड इति यावत्- गो.
  2. महान् आग्रहः यस्य सः महाग्रहः स्वर्भानुः राहुः । अपर्वणि-प्रतिपद्दर्शसन्धि: पर्व,तस्मादन्यस्मिन्नपि काले सूर्य जग्राह । तदाइ वराहमिहिरः –'अपर्वणि तथा राहुग्रहणंचन्द्रसूर्ययो: ' – इति - गो
  3. प्रवाति - प्रतिकूलो वाति-गो.
  4. सन्निभाः- ङ
  5. पुष्पफलैर्विना बभूवुः -गलितनुष्पादिका बभूवुरित्यर्थः- गो. | जलधरारुग:- मेघवद्धूसर:- गो. रा.॥ उसका निर्धातौ -- ज्योतिर्वायुविशेषौ । अत्र वराहमिहिर: -- " उल्का शिरसि विशाला निपतन्ती वर्धते तनुप्रभया । पवनाभिहता गगनादवनौ च यदा समापतति । तदा निर्घातः स च पापो दीर्घखगविरुठः ॥ " इति गो.
  6. सनिषोंषा:-ज.