पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८ सर्ग:]
139
चिच्छेदास्याः कर्णनासं लक्ष्मणो रामचोदितः



कथं दासस्य मे दासी भार्या भवितुमिच्छासे १
सोऽहमार्येण परवान् भ्रात्रा, [१]कमलवार्णनि ! ॥ ९ ॥

 दासस्य मे भार्या भूत्वा कथं दासी भवितुमिच्छसीति योजना ॥ ९ ॥

समृद्धार्थस्य सिद्धाथा [२] मुदिता[३],ऽमलवर्णिनी ।
आर्यस्य त्वं विशालाक्षि ! भार्या भव यवीयसी ॥ १० ॥

 अमलवर्णिनी-शुभरूपवती ॥ १० ॥

एनां विरूपामसतीं करालां निर्णतोदरीम् ।
भार्या वृद्धां परित्यज्य त्वामेवैष भजिष्यति ॥ ११ ॥

 एनां विरूपामित्यादिलक्ष्मणवचनस्य आन्तराशयः व्यनयोक्तया ॥

कोहि रूपमिदं श्रेष्ठं सन्त्यज्य, वरवर्णिनि !
मानुषीषु, वरारोहे ! [४],कुर्याद्भावं विचक्षणः ॥ १२ ॥
इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी ।
मन्यते तद्वचः [५] तथ्यं परिहासाविचक्षणा ॥ १३ ॥

 परिहासाविचक्षणा-परिहासत्वज्ञानरहितः ॥ १३ ॥

सा रामं पर्णशालायां उपविष्टं परंतपम् ।
सीतया सह दुर्धर्ष अब्रवीत् काममोहिता ॥ १४ ॥



  1. अकम नर्णिनीत्यपि पदच्छेदः-गो.
  2. मुदिता सती त्वं भव - रा.पिता-गो.
  3. वरवर्णिनि-ङ
  4. रतिं कुर्यात्-ङ
  5. पथ्यं-ड.