पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
138
अरण्यकाण्ड:
शूर्पनणखाविरुपणम्



 अकृतदारश्वेत्यत्र अकृतपरदारपरिग्रहः इत्यान्तराशयः । न हि रामो मिथ्या भाषते । अपूर्वीति । पूर्व भार्यासुखं ज्ञातमनेनेति पूर्वी, 'पूर्वादिनिः' इति इनिः, न पूर्वी अपूर्वी । अत एव भार्यया अर्थी- प्रयोजनवांश्च । इदमपि वचनद्वयं स्वभार्याविषय काऽऽन्तराशयेन प्रयुक्तम् । 'अनुरूपश्च ते भर्ता' इत्यत्रापि अभर्तेति पदच्छेद- नाऽऽन्तराशयः । एवंविधो विवादः स्वस्मिन् काममोहतः प्राप्तायाः स्त्रियः द्राकू धिक्कारेण मा भूदिति घृणया ॥ ३-४ ॥

एनं भज, [१]विशालाक्षि ! भर्तारं आतरं मम ।
असपत्ना, वरारोहे ! मेरुं अर्कप्रभा यथा ॥ ५ ॥

 अर्कप्रभाः यथा भजन्ति तथेति योजना ॥ ५ ॥

इति रामेण सा प्रोक्ता राक्षसी काममोहिता ।
विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ॥ ६ ॥
अस्य रूपस्य ते युक्ता भार्याऽहं वरवर्णिनी ।
मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि ॥ ७ ॥
एवमुक्तस्तु सौमित्रिः राक्षस्या वाक्यकोविदः ।
ततः [२] शूर्पनखीं स्मित्वा लक्ष्मणो [३] युक्तमब्रवीत् ॥ ८ ॥

 शूर्पनखीं स्मित्वेति । अत्र शूपे इव नखः यस्याः सा इति, संज्ञाविवक्षणाभावात् 'स्वाना चोपसर्जनात्' इति ङीप् । असंज्ञा- त्वादेव 'पूर्वपदात् संज्ञायामगः' इति णत्वाभावश्च ॥ ८ ॥



  1. वर्तुलनया विशालाक्षीत्वं गो.
  2. शूर्पणखां - ङ.
  3. वाक्य-ड..