पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३ सर्ग:]
129
सात्वा नद्यां पावन्यां स्वाश्रमं पुनरागमन्



 वनस्थमपि त्वां तापस्थे-तापसकृत्ये स्थित्वा अनुविधीयते अनुकरोति- सेवते इत्यर्थः ॥ ३३ ॥

[१] |न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥ ३४ ॥

 पित्र्यं-पितृवभावम् । द्वे पदे येषां ते द्विपदाः- ऊर्ध्व- स्त्रोतसः पित्र्यं नानुवर्तन्ते, अपि तु मातृकं-मातृस्वभावमेव अनुवर्तन्ते इति ख्यातो लोकप्रवादः भरतेन अन्यथा कृतः, न मातुः इत्यर्थः ।

भर्ता दशरथो यस्याः साधुश्च भरतः सुतः ।
कथं नु साऽम्बा कैकेयी तादृशी क्रूर [२] दर्शिनी ॥ ३५ ।।

 एवं भरतमुपलाध्य कैकेयीं परिवदति - भर्तेत्यादि ॥ ३५ ॥

इत्येवं लक्ष्मणे वाक्ये [३] ।स्नेहात् ब्रुवति धार्मिके।
परिवादं जनन्यास्तं असहन् राघवोऽब्रवीत् ॥ ३६ ॥

 स्नेहादिति । भरतस्नेहादित्यर्थः । असहन्निति । असहमान इति यावत् ।। ३६ ।।



  1. यद्यपि पूर्व 'सत्यश्चाष प्रवादोऽयं लौकिकी प्रतिभाति मा। पितॄन् समनु-
    आयन्ते नरा मातरमङ्गना:' (अयो. 35-27) इत्युक्तम्, अथापि तत्र 'जायन्ते ' इति
    कथनात् जन्मना साकमागतधर्मविषयकं तत्; अत्र तु 'अनुवर्तन्ते' इति कथनात् लालन-
    पोषणादीनां मात्रधीनत्वेन तस्याः प्रभावः पुत्रे स्यात्, एवं मातरि पक्षपातश्च स्यादित्येत-
    द्विषयकमिदमिति न विरोध: । अधिकमन्यत्र
  2. शीलिनी-ड.. च.
  3. स्नेहात्-- रामे स्नेहात्। अत एव खलु रामानुकूलं भरतं प्रशंसति, रामप्रतिकूलां
    कैकेयीं निन्दति