पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
128
अरण्यकाण्डः
हेमन्तवर्णनम्



अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ।
तपश्चरति धर्मात्मा त्वद्भक्तथा भरतः पुरे ॥ २७ ॥

 त्यक्ता राज्यं च [१] मानं च भोगांश्च विविधान् बहून् ।

तपस्वी नियताहारः शेते शीते महीतले ॥ २८ ॥
सोऽपि वेलामिमां नूनं अभिषेकार्थमुद्यतः ।
नृतः प्रकृतिभिः नित्यं प्रयाति सरयूं नदीम् ॥ २९ ॥
अत्यन्तसुखसंवृद्धः सुकुमारः [२]सुखोचितः ।
कथं न्वपररात्रेषु सरयूमवगाहते ॥ ३० ॥
पद्मपत्रेक्षणो वीरः श्यामो निरुदरो महान् ।
धर्मज्ञः सत्यवादी चे [३]ह्रीनिषेधः जितेन्द्रियः ॥ ३१ ॥
प्रियाभिभाषी मधुरः दीर्घबाहुररिन्दमः ।
संत्यज्य विविधान् भोगान् आर्य सर्वात्मना श्रितः ॥ ३२॥

 निरुदर इति । अतुन्दिल इत्यर्थः । हीनिषेधः - ह्रिया - लज्जया अन्यस्त्र्यादिविषये निषेधः-चक्षुरादीन्द्रियनिवर्तनं यस्य स तथा । तत्रैव हेतुः- जितेन्द्रिय इति । आर्य-पूज्यम्, ज्येष्ठं त्वामित्यर्थः ॥ ३२ ॥


[४]वनस्थमपि तापस्ये यस्त्वामनु [५]विधीयते ॥ ३३ ॥

 जित इति पृथक् पदम् । उच्यमानविशेषणकेन भरतेन स्वर्गो निर्जित एव । कुतः इत्यतः-- वनस्थमित्यादि । या भरतः



  1. मानं - राजाऽहमित्यभिमानम् ।
  2. हिमादित:- ङ.
  3. अनेन प्रकृतेरेव अधर्मवैमुख्यमुक्तम् ।
  4. जितः स्वर्गः तव भ्रात्रा भरतेन महात्मना ।
    अत्यन्तपरोक्षे बने, तत्रापि तापस्ये विद्यमानं त्वां समग्रभोगसाधने नगरे वर्तमान
    एव यतोऽनुकरोति, अतो जित: स्वर्गों भरतेनेति ।
  5. विधास्यते-ड..