पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xii



 मच्छन्दादेव ते ब्रह्मन् प्रवृत्तयं सरस्वती' * इति चतुर्मुखवाक्यं स्मारयतीत्येतावदेव वक्तुं प्रभवामो वयम् ॥

 तदेतस्याद्भुतस्यारण्यकाण्डस्यातिशये निदर्शनमात्रमुपपादि- तम्, यतोऽत्र वक्तव्यं सर्वे पश्चादवसरे विस्तरेण विचिचारयिषवो वयम् ॥

 एतत्संपुट संपाद नोपयुक्तमातृकादिविषये न किश्चिन्नूतनतया वक्तव्यमस्ति । यावच्छक्ति शीघ्रमेवावशिष्टानपि भागान् प्रकटीकृत्य सहृदयानानन्दयितुमिच्छामो वयम् । अनुगृह्णातु चास्मान् तथासंपाइनेन श्रीरामचन्द्रः ||



मैसूरु, 9-8-1965

                                                 इति
                                              सुधीजनविधेय:,
                                          N. S. वेङ्कटनाथशर्मा.






  • बाल. 2-31