पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
96
[अरण्यकाण्ड:
अगस्त्यसन्दर्शनम्



 गायत्रीत्युपलक्षणं सरस्वती सावित्र्योरपि । एवं इह ब्रह्मादिधर्मान्त- सप्तदशदेवानां 'यो वै सप्तदशं प्रजापति' इत्यनुवाकोपदिष्टयज्ञयज्ञेश्वर- यजमान श्रीमद्यक्षमूर्तिभगवत्प्रजापति मूलमंत्र सप्तदशाक्षरीदेवानां इहोप-दिष्टानां 'अगस्त्यो विश्वाध्वरेश्वर' इति क्रान्तिपूर्तिः, विद्यान्तर्गतानामशेष-यज्ञविद्यासाषकमहर्षित्वात् स्वयज्ञदेवतानां स्वाश्रमे प्रतिष्ठापूर्वकं नित्यं- विशेषसमागघनं अगस्त्यस्य भगवतः । एवं च ब्रह्मादिब्रह्मकुलकुलदेव- तानां सर्वेषां स्वखगृहे अर्चायां अर्चनीयत्वं सुस्पष्टम् । अन्ततः आद्यन्त- मध्यदेवतात्रयस्य श्रीहिरण्यगर्भगायत्री घर्मलक्षणस्य च ब्रह्मकुल- मात्रस्यार्चायामचनं आवश्यकम् । श्रीमद्यज्ञविद्योपासकस्य तु तच्चके अग्न्यादितद्विद्याक्षरदेवताभिः सहोपदिश्यमानाः तदक्षराधिदेवताश्च अर्चनीयाः ।। २० ।।

ततः शिष्यैः परिवृतः मुनिरप्यभिनिष्पतत् ।
तं ददर्शाग्रतो रामः मुनीनां दीप्ततेजसाम् ॥ २१ ॥

 मुनिरप्यभिनिष्पतदिति । अडभाव: आर्षः । अभ्युत्थानं कृतवानिति यावत् । मुनीनामग्रतः स्थितं [१] तं ददर्श ॥ २१ ॥

अब्रवीद्वचनं [२] वीरः लक्ष्मणं लक्ष्मिवर्धनम् ।
एषः, लक्ष्मण ! निष्क्रामति अगस्त्यो
 [३]औदार्येणावगच्छामि [४] निधानं तपसामिमम् ॥ २२ ॥

 औदार्येण - औन्नत्येन-तेजोविशेषजनितेन ॥ २२ ॥



  1. अभिनिष्पतदित्युक्तत्वात् स्वपुरत एवागतमिति वाऽर्थः । अत एव 'एष: इति प्रदर्शनं अनन्तर लोके ।
  2. राम: इ.
  3. औदार्य-सरलता वा; महान्त एव किल सरला
    भवितुं अर्हन्ति ।
  4. निदानं