पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२ सर्ग:]
95
ततस्ते दूरतोऽपश्यन् अगस्त्यं दीप्ततेजसम्



[१] स तत्र ब्रह्मणः स्थानं अग्रेः स्थानं तथैव च । विष्णोः स्थानं [२]. महेन्द्रस्य स्थानं चैव विवस्वतः ।। १७ ।।

सोमस्थानं [३] भगस्थानं स्थानं कौबेरमेव च ।
धातुः विधातुः स्थाने च वायोः स्थानं तथैव च ॥ १८ ॥

नागराजस्य च स्थानं [४]अनन्तस्य महात्मनः ।
स्थानं तथैव गायत्र्याः वसूनां स्थानमेव च ।। १९ ।।

स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ।
कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ॥ २० ।।

 स तंत्र ब्रह्मणः स्थानमिति । तत्र - आश्रमे प्रथमं ब्रह्मणः स्थानं, श्रीहिरण्यगर्भब्रह्मणः कुलदैवतस्यालयं व्यलोकयत् इत्यनुषङ्गः । अथ अग्नेः स्थानं- चतुर्मुखरुद्रस्य स्थानम् । अथ विष्णोः-श्रीप्रदेशविष्णोः । अथ यथोक्तत्रिब्रह्माङ्गदेवतानां आलयोपदेशः । महेन्द्रस्य विवस्वतः । भगः- मण्डम्थूलमंनिवेशाभिमानी । घाता-कार्यप्रजापतिः । विघाता-विश्वकर्मा ।



  1. ब्रह्मणः- चतुर्मुखस्य, अग्नेः- पावकस्य, भग: देवताविशेषः । पाशहस्तस्येत्यादि-विशेषणानि तत्र मुनेभक्तिविशेषद्योतनार्थम् । इमे ब्रह्मादयः पूर्वसर्गे फलप्रदत्वेनोक्ता: । एते ब्रह्मा झिविष्णुमहेन्द्रविवस्वत्सोम भग कुबेरघातृविधातृवाय्वनन्तगायत्रीवसुवरुण कार्तिकेय-धर्माख्या: सप्तदश देवा: 'यो वै सप्तदशं' इत्यनुवाकोक्तसप्तदशाक्षरदेवताः या जूकेन मुनिना पूजार्थ प्रतिष्ठिता इति बोध्यम् । अत्र पूज्यदैवतेषु रुद्रस्यानु गदानात् मुक्तम् | अधुना कैश्चिज्जनैः पूज्यमानता तु तामसशास्त्रानुरोधेनेति बोध्यम् । ननु 'विष्णोः स्थान महेशस्य ' इति पाठात् स्थानानुक्तयसंभव इति चेत्, तदा पूर्व रामेण " कागस्थ्यं नियताहारं सततं पर्युपासते इत्युक्तावपि स्थाननिर्देशे उपास्योपासकयो-योरपि निर्देशो न विरुध्यते । यद्वा उपासनं समीपावस्थानम्, न त्वाराधनम्, 'धर्म-मारापयिष्णवः' इत्युक्तेः । धर्मस्यााधनं परिपालनमेव-गो.
  2. मद्देशस्स-
  3. शिवस्थान-ड.
  4. गरुडस्म तथैव च-ड.