पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
92
अरण्यकाण्डः
अगस्त्यसम्दर्शनम्



द्वादसशः सर्गः

[ अगस्त्यसन्दर्शनम् ]


स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ।
अगस्त्य शिष्यमासाद्य वाक्यमेतदुवाच ह ॥ १ ॥

 अथ अगस्त्यमुपसंपन्नस्य सत्कारपूर्वं धनुरादिप्राप्तिः । स प्रविश्येत्यादि ॥ १ ॥

राजा दशरथो नाम ज्येष्ठः तस्य सुतो [१] बली ।
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ २ ॥
लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः ।
[२]अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३ ॥

 यदि ते श्रोत्रमागतः इति । यदिशब्दः संभावनायाम् । अस्माभिरिह दण्डकारण्ये ऋषिभिः सह बहुकालं वासात् ऋषिमुखेन त्वयाऽपि रामः अहं च श्रुतौ भबेः, श्रुतवान् इत्यर्थः ॥ ३ ॥

ते वयं [३] वनमत्युग्रं प्रविष्टाः पितृशासनात् ।
द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ४ ॥

 द्रष्टुमिच्छामहे भगवन्तं; अतो दर्शनार्थं आगताः इति निवेद्यतामित्यर्थः ॥ ४ ॥

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः ।
तथेत्युक्ताऽग्निशरणं प्रविवेश निवेदितुम् ।। ५ ।।

 अभिशरणं- अग्निहोत्रगृहम् ॥ ५ ॥



  1. अनेन वनवासस्य स्वेच्छतस्वमुच्यते ।
  2. अनुर कक्ष-ड.
  3. वनसव्यप्रं-ङ