पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:]
91
प्रादागस्त्याय तच्छिण्यस्वेषामागमनं पुन:



अत्र देवाश्च यक्षाश्च नागाश्च [१] पतगैः सह ।
वसन्ति नियताहाराः धर्म माराधयिष्णवः ।। ९१ ।।

 पतगा:- गरुडजातयः |[२] धर्म-स्वाश्रमंघम् ।। ९१ ॥

अत्र सिद्धाः महात्मानः विमानैः सूर्यसन्निभैः ।
 [३].त्यक्तदेहाः नवैर्देहैः स्वर्याताः परमर्षयः ।। ९२ ।

 नवैः देहैः- दिव्यदेहैरित्यर्थः ।। ९२ ।।

यक्षत्वममरत्वं च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छन्ति भूतैः आराधिताः [४] शुभैः ॥ ९३ ॥

 अत्र आराधिताः देवाः - इन्द्रादयः प्रयच्छन्तीति । आश्रम वैभवात् अल्पकालेनेति शेषः।। ९३ ॥

आगताः साश्रमपदं, सौमित्रे ! प्रविशाग्रतः ।
 [५]-निवेदयेह मां प्राप्तं ऋषये सीतया सह ।। ९४ ।।

 इत्यायें श्रीमद्रामायण वाल्मीकीये अरण्यकाण्डे एकादशः सर्गः

 वन (९४) मानः सर्गः ॥ ९४ ।।

 इति श्रीमद्रामायणामृतकतकडी कायां अरण्यकाण्डे एकादश: सर्ग:



  1. पतगै:- गरुडजातिमि:-गो
  2. धर्म-स्वर्गादिज कं-ति. स्वस्वधर्म वा
  3. व्यक्ता देहान्- ङ
  4. सत्कर्मनिरतै:-गो. सत्कर्मभे:-ति. शुभा:-ङ
  5. अप्रतः प्रवेशादेशे हेतुः