पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१ सर्ग:]
276
मारीचाद्यैव इन्यां त्वां मदुक्तं न करोषि चे

 प्रत्यक्षवघपरिहाराय मद्वचस्यनुष्ठिते जीवतस्ते मत्तो बहुसम्मान-प्राप्तिः । न च रामो मां हनिष्यतीति शङ्कयम्। वारद्वयवत् तृतीयपर्यायेऽपि जीवितस्य संभावितत्वेन त्युनिश्चयाभावः, अतो विमृश्य यदिष्टं तत् कुरु इत्याह -- आसाद्य तमिति । राममित्यर्थः 1 जीवित- संशय इति । प्राणस्य नाशस्थित्योः संशयः तथा, न तु निश्चय इत्यर्थः । एतदिति । मदुक्तवचनमित्यर्थः । सर्प (२७)मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे चत्वारिंशः सर्ग:

एकचत्वारिंशः सर्गः

[रावणप्रतिबोधनम्]

 [१]आज्ञप्तो [२]रावणनेत्थं प्रतिकूलं [३] च राजवत् ।
अब्रवीत् [४]परुषं वाक्यं [५].निःशङ्को राक्षसाधिपम् ॥ १ ॥

 अथ मारीचस्तु उभयथाऽपि निश्चितमरणः लोकवदेव निश्शङ्को मृत्योः रावणस्य पारुष्यं करोति--आज्ञप्त इत्यादि । राजवदिति । प्रकृतार्थे वतिः, तदन्तमव्ययं चेह सर्वत्र इति बहुषा दर्शितम् । राज्ञा रावणेन आज्ञप्तः - कृतप्रत्यवायनियोगः परुषं- अत एव प्रतिकूलं च वाक्यमब्रवीत् ॥ १ ॥


  1. अराजवत् – (आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचर:-इति गो. पाठः) यदा रामप्रातिकूल्ये प्रवृत्तः तदैव राजत्वं गतमिति मुनेराशयः । (राजाईविवेकराहित्याद्वा अराजवदिति कथनम्) | यद्वा राजवत् - राजाईम्; 'तदर्हम्' इत्यहर्थेि वतिः । यद्वा राजवदिति पूर्वसगोक्तं औद्धत्यं लक्ष्यते-गो. राजवत्-राजयोग्यम्-ति निश्शङ्क: मारीच: राजवत् परुषं वाक्यं राक्षसाधिपमब्रवीत् रा.
  2. डराजवद्वाषयं ङ.
  3. निशाचर:-ङ.
  4. सरुषं - ङ.
  5. भारीचो-हु