पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
276
[अरण्यकाण्ड:
रावणप्रतिबोधनम्

केनायमुपदिष्टस्ते [१] विनाशः पापकर्मणा |
[२] सपुत्रस्य सराष्ट्रस्य सामात्यस्य, निशाचर ! ॥ २ ॥

 विनाशः-:–अपाय इत्यर्थः ॥ २ ॥

[३] कस्त्वया सुखिना, राजन् ! नाभिनन्दति [४]पापकृत् ।
केनेदमुपदिष्टं ते मृत्युद्वार [५] पायदः || ३ ||

 सुखिना त्वयेति । अवस्थानमिति शेषः । उपायत इति ।उणयव्या जेनेत्यर्थः ॥ ३ ॥

[६] शत्रवस्तव सुव्यक्तं हीनवीर्या [७] निशाचराः ।
इच्छन्ति त्वां विनश्यन्तं उपरुद्धं बलीयसा ॥ ४ ॥
केनेदमुपदिष्टं ते क्षुद्रेणाहित [८]वादिना ।
यस्त्वामिच्छति नश्यन्तं स्वकृतेन,निशाचर ! ॥ ५॥

 स्वकृतेनेति। स्वरचितविनाशं पायेनेत्यर्थः ॥ ५ ॥

वध्याः खलु न [९]हन्यन्ते सचिवास्तव, रावण !
ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥ ६ ॥

 न निगृह्णन्तीति । न निवारयन्तीत्यर्थः ॥ ६ ॥

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
निग्राह्यः सर्वथा सद्भिः [१०][११] निग्राह्यो निगृह्यसे ॥ ७ ॥


  1. विनाशः - विनाशोपाय:- गो. ति.
  2. सपुरस्य-ङ.
  3. अभिनन्दने हेतुः त्वया सुखिनेति । दुखिनं त्वां न सहत इति यावत् ।
  4. निन्दितः - ङ.
  5. भावृतम् - ङ.
  6. हीनवीर्या:, अत एव स्वयं त्वामुपरोद्धुमशक्ता
    निशाचराः बलीयसा रामेण त्वां विनश्यन्तमिच्छन्ति ।
  7. निशाचर-ज.
  8. बुद्धिना- ज.
  9. वध्यन्ते-ज.
  10. स निग्राह्यो न गृह्यते-ज.
  11. निग्राह्यः, त्वमिति शेषः ।