एतत् पृष्ठम् अपरिष्कृतम् अस्ति
274
[अरण्यकाण्ड:
मारीचभर्त्सनम्
शिवं मार्ग गच्छेति । सौम्यभावमास्थाय प्रस्थितो भवेत्यर्थः ॥ २४ ॥
प्राप्य सीतामयुद्धेन वञ्चयित्वा च [५] राघवम् ।
लङ्कां प्रतिगमिष्यामि कृतकार्यः सह त्वया ॥ २५ ॥
न चेत् करोषि, मारीच! हन्मि त्वामहमद्य वै ।
एतत् कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थः न जातु सुखमेधते ॥ २६ ॥
अथ रावणो राजत्वात् अकरणे दण्डमाह-न चेदित्यादि ॥ २६ ॥ [६] आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य । एतद्यथावत् [७]प्रतिगृह्य बुद्धया [८]यदत्र पथ्यं कुरु तत् तथा त्वम् ॥ २७ ॥
इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चत्वारिंशः सर्गः
- ↑ आहरिष्यामि-ज.
- ↑ सहस्राक्षः शचीमित्रेति स्वबुद्धया ।
- ↑ प्रदास्यामि ज.
- ↑ मार्ग- मृगसम्बन्धिरू। शिवं मनोहरं गच्छ-गो. यद्वा न चेत्करोषि (२६) इति वक्ष्यमाणत्वात् तव निरपाय मार्ग गच्छेत्यर्थः ।
- ↑ राघवो ङ.
- ↑ राम+म्मुखगमने वारद्वयवत् अद्यापि जीवितसंशय एव, मद्विरोधे तु अद्यैव मृत्युस्तव निश्चित: अनयोः कः श्रेष्ठ: इत्यालोचयेति भावः ॥
- ↑ प्रतिगम्य - ङ.परिगण्य-ज.
- ↑ यद्रोचते तत्कुरु मा चिरेण-ङ.