गुणदोषौ न पृच्छामि क्षमं चात्मनि, राक्षस ! ॥ १५ ।।
[१] मयोक्तं तव चैतावत संप्रत्यमितविक्रम !
क्षमं चात्मनीति । युक्तमित्यर्थः । मयेत्यादि । संप्रति मया तवोक्तं - त्वया कर्तव्यतया उक्तं एतावत् ॥ १५ ॥
एतच्छब्दार्थ एव अस्मिन्नित्यादि । निश्चिते सीतापहारकृत्ये स भवान् मया नियुक्तः साहाय्यं कर्तुमर्हतीत्यर्थः । मत्कर्तव्यसाहाय्यं कीदृशं ते ? इत्यपेक्षायामाह--शृण्वत्यादि ॥ १६ ॥
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥ १७ ॥
आश्रमे तस्य रामस्य सीतायाः [५] प्रमुखे चर ।
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ।। १८ ।।
त्वां तु मायामृगं दृष्ट्वा [६]काञ्चनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति [७]मैथिली ।। १९ ।।
अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर ।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ २० ॥
रामवाक्यानुरूप कमिति । रामकण्ठध्वनिसदृशध्वनियुक्तमित्यर्थः ॥
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
अनुगच्छति संभ्रान्तः सौमित्रिरपि सौहृदात् ।। २१ ।।