पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
272
[ अरण्यकाण्ड:
मारीचभर्त्सनम्

 [१] वाक्यमप्रतिकूलं तु मृदुपूर्व हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।। १० ।।

 तस्यैव विवरणं वाक्यमित्यादि १० ॥

[२]सावमदं तु [३]यद्वाक्यं, मारीच ! हितमुच्यते ।
नाभिनन्दति तद्राजा [४]मानार्हो मान[५] वर्जितम् || ११ ।।

 ननु प्रतिकूलमपि हितं राज्ञे वक्तव्यं इत्याशङ्कयाह – सावमर्द- मित्यादि । राजपृष्टावमदेसहित मित्यर्थः ॥ ११ ॥

पञ्चरूपाणि राजानः धारयन्त्यमितौजसः ।
अमेरिन्द्रस्य सोमस्य वरुणस्य यमस्य च ।। १२ ।।
[६] औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्
धारयन्ति महात्मानः राजानः, क्षणदाचर ॥ १३ ॥
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च [७]पार्थिवाः ।

 पञ्चानां रूपाणि पञ्च रूपाणि । के ते इत्यतः अमेरित्यादि । कस्य किं रूप धारयन्तीत्यतः - औष्ण्यमित्यादि । १२-१३ ॥

त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ॥ १४ ॥
[८] अभ्यागतं मां दौरात्म्यात् परुषं [९]वक्तुमिच्छसि ।

 अभ्यागतमित्यनेन विशिष्य पूजनीयत्वसूचनम् ॥ १४ ॥


  1. एवं वक्तृगुणा उक्ताः, अथ वचनप्रकारमाह - वाक्यमिति - गो.
  2. सोपमर्द, सावमान-ङ,
  3. यद्वाक्यमथवा हित-ज. यद्वाक्यं मानहारीद-कु.
  4. मानार्थी-ज.
  5. वर्जितः-ङ.
  6. औष्ण्यं-तीक्ष्णत्वं, विक्रम:-बला तिशयः, सोम्यं कृपालु, दण्ड:- दुष्टनिग्रहः
    प्रसन्नता-प्रसाद: रा.
  7. नित्यदा-ज.
  8. राजानं, विशिष्येदानीं अभ्यागतं- इति भावः।
  9. बदसीदृशम्-ज.