पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९, सर्ग:]
267
रेफाशैन्यपि नामानि त्रासयन्ति पदेपदे

आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ।
पराक्रमज्ञो रामस्य * [१] [२]शठो दृष्टभयः पुरा ॥ १२ ॥
[३] समुद्धान्तस्ततो मुक्तः तावुभौ राक्षसौ हतौ ।
शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम् । १३ !
इह प्रव्राजितो [४]युक्तः तापसोऽहं समाहितः

 शठ:- गूढविप्रियकृत् । समुद्रान्तः- पलायमानः । प्रत्राजितः- कृतसकलदुर्वृत्तरित्यागः । तापस:- तपोनिष्ठः ।। १२-१३ ।।

वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ॥ १४ ॥
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ।
 [५] अपि रामसहस्राणि मीतः पश्यामि, रावण ! ।। १५ ।।
रामभूतमिदं सर्व अरण्यं प्रतिभाति मे ।
[६] राममेव हि पश्यामि रहिते, राक्षसाधिप ! ॥ १६ ॥
दृष्टा स्वप्नगतं रामं उच्चमामि विचेतनः ।

 रहिते- रामरहितेऽपि वने ।। १६ ।।

रकारादीनि नामानि रामत्रस्तस्य, रावण ! ॥ १७ ।।
रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे ।

 रकारादीनीति । रेफादीनीति यावत् ॥ १७ ॥

अहं तस्य प्रभावज्ञः न युद्धं तेन ते क्षमम् ।। १८ ॥


  1. शर: पुरा दृष्टभय: - गो.
  2. शरो-ङ.
  3. समुत्कान्त-ज.
  4. युक्त:-उचिताचरण:- गो. योगाभ्यासरत:-ति. रा.
  5. एकस्यैव रामस्य प्रतिवृक्षं गत्वा गत्वा दृश्यमानत्वमुच्यत इति भ्रमं
    बारयति- अपीति-गो
  6. नेदं रामस्य मायाक्कतमित्याह -- राममेवेति । रहिते-रामरहिते प्रदेशे-गो.