पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
266
अरण्यकाण्ड
साहाग्यकानभ्युपगम:

निहत्य दण्डकारण्ये तापसान् धर्मचारिणः ।
रुधिराणि पिबंस्तेषां [१] तथा मांसानि भक्षयन् ॥ ५ ॥
[२] ऋषिमांसाशनः क्रूरः त्रासयन् वनगोचरान् ।
[३] तथा रुधिरमत्तोऽहं विचरन् धर्मदूषकः ।। ६ ।।
आसादयं तदा रामं तापसं धर्म [४]चारिणम् ।
वैदेहीं च महाभागां लक्ष्मणं च महाबलम्-ङ. महारथम् ॥ ७ ॥
तापसं नियताहारं सर्वभूतहिते रतम् ।
सोऽहं वनगतं रामं परिभूय महाबलम् ॥ ८ ॥
[५] तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुसरन्
अभ्यधावं हि संक्रुद्धः तीक्ष्णशृङ्गो मृगाकृतिः ॥ ९ ॥
जिघांसुरकृतप्रज्ञः तं प्रहारमनुस्मरन् ।
तेन [६] मुक्ताः त्रयो बाणाः शिताः शत्रुनिबर्हणाः ॥ १० ।।
विकृष्य [७] बलवच्चापं सुपर्णानिल[८] निःखनाः [९]
ते बाणा: वज्रसङ्काशाः [१०] सुमुक्ता रक्तभोजनाः ॥ ११ ॥


  1. तन्मांसानि च-ज.
  2. उक्तानुवादः, अतो न पौनरुक्तयम् ।
  3. एतदर्थस्थाने – “तदा रुधिरमत्तोऽहं व्यचरं दण्डका-वनम् । तदाऽहं दण्डकारण्ये विचरन् धर्मदूषरु:" इति-ज.
  4. माश्रितं- ङ.
  5. रामपराक्रमं जानन्नपि कथं तत्परिभवायोयुक्तः इत्यत्राह - तापसोऽयमिति । तापसत्वादहिंसापरेण भवितव्यमिति विश्वस्येत्यर्थ:-गो. राज्यात् भ्रष्टः, अत एव कालक्रमत: निर्वीर्यो जात: तापस: - दीन:-निर्गतिकः इति मत्वा - इति वा । निरायुध इति वा ॥
  6. त्यक्ता:-ज.
  7. सुमह-ज.
  8. तुल्यगा:-ज.
  9. एतदनन्तरं-" तैर्वाणैर्दण्डकारण्ये
    मत्तैराशीविषोपमैः । कृतं वितिमिरं सर्व रामेणाविष्टकर्मणा " इत्प्यधिकं-ड
  10. सुघोरा-ज.