पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९ सर्ग:]
265
कम्पते हृदयं राजन् स्मरत: तस्य पौरुषम्

एकोनचत्वारिंशः सर्गः

[साहाय्यकानभ्युपगमः]

एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे ।
इदानीमपि यद्वृत्तं तच्छृणुष्व [१] [२] यदुत्तरम् ।। १ ।

 पुनश्च स्वानुभवसिद्धं रामबीर्थं महद्वृत्तानुवादपूर्व आह— एवमित्यादि । 'इदानीमपि यद्वृत्तं तच्छृणुष्व यदुत्तरम्' इति पाङ्कः । इदानीं प्रौढावस्थायामपि यद्वृत्तं मद्विषयमभूत् यच्चेदमप्युत्तरं सर्वलोकोत्तरं तदतिरिक्तासाध्यं तच्छृणुष्व-गृण्विति यावत् ।। १ ।।

राक्षसाभ्यामहं द्वाभ्यां [३] अनिर्विण्णस्तथा कृतः ।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ २ ॥

 अनिर्विण्णस्तथा कृतः इति । पूर्व प्राणसंकटं प्रापितोऽपि अहं - अप्राप्तवद्विषयप्रवृत्तिवैराग्यः ॥ २ ॥

दीप्तजिह्वो [४] महाकायः तीक्ष्णदंष्ट्रो महाबलः ।
व्यचरं [५]दण्डकारण्यं [६].मांसभक्षो महामृगः || ३ ॥
अग्निहोत्रेषु तीर्थेषु [७] चैत्यवृक्षेषु, रावण !
अत्यन्तघोरो व्यचरं तापसान् संप्रधर्षयन् ॥ ४ ॥ ॥


  1. निरुत्तरं शृणुष्व ---मध्ये वाक्यविच्छेदा करणेन शृण्वत्यर्थः । यदुत्तरमितिपाठे,यत् सर्वान्तोत्रं तदतिरिक्तासाध्यं तदपि झुण्वित्यर्थ:- गो.
  2. निरुत्तरम्-ङ.
  3. अहं - मृगरूपधर इति शेषः, उत्तरश्लोके हि तथोक्तम् । ↑ अनिर्विष्णः - निवेंद्ररहितः, 'निर्वेदो निष्फलत्व- अप्राप्त तद्विषयप्रवृत्तिवैराग्य:-गो.
  4. महादंष्ट: तीक्ष्णशृंगो-ज.
  5. दण्डकारण्ये-ङ.
  6. ऋषिमांसानि भक्षयन्-ङ
  7. चैत्यवृक्षाः - देवालयस्थानापन्नाः पूज्यवृक्षाः, अश्वत्थादिवत्