एतत् पृष्ठम् अपरिष्कृतम् अस्ति
264
[अरण्यकाण्ड:
रामपराक्रमकथनम्
शरजालपरिक्षिप्तां अग्निज्वालासमावृताम् ।
प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः ॥ २९ ॥
परदाराभिमर्शात्तु नान्यत् पापतरं महत् ।
प्रमदानां सहस्राणि तव, राजन् ! [१] [२]परिग्रहः ॥ ३० ॥
भव खदारनिरतः स्वकुलं रक्ष, [३] राक्षस !
मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः [४]॥ ३१ ॥
कलत्राणि च सौम्यानि मित्रवर्ग तथैव च ।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ ३२ ॥
निवार्यमाणः सुहृदा मया भृशं
प्रसय सीतां यदि घर्षयिष्यसि ।
गमिष्यसि क्षीणवलः सबान्धवः
यमक्षयं राम[५].शरात्तजीवितः ॥ ३३ ॥
इत्याबें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टात्रिंशः सर्ग:
लोल (३३)मानः सर्गः ॥ ३३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अष्टात्रिंशः सर्ग:
- ↑ परिग्रह: कलत्रे स्यात्' इति शाश्वत:-गो. परिग्रहे-अन्तःपुरे सन्तीति शेष:-ति. रा.
- ↑ परिग्रहे-ज.
- ↑ रावण-ड.
- ↑ पतदनन्तरं -" सीताहेतो: समग्राणि विद्रविष्यन्ति भीतवत् । आत्मनश्च दशग्रीव ! पुरस्यान्तःपुरस्य च । रक्षसांच विनाशाय मैथिलीमानयिष्यसि । मा नाशय त्वं राज्यं च जीवितं चेष्टमात्मन:" इत्यधिकं- ङ.
- ↑ शरार्त- ङ.शरास्त-ज