पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
250
[अरण्यकाण्ड:
मारीचसहायप्रार्थना

ते विदानीं जनस्थाने [१]वसमाना महाबलाः।

 किं ततः ! इत्यतः चतुर्दशेत्यादि । यानि सन्ति ते त्विदानीमित्यन्वयः | वसमानाः -- वसन्तः इति यावत् ॥ ५ ॥

[२][३]सङ्गताः परमायत्ताः रामेण सह संयुगे ॥ ६ ॥
नानाप्रहरणोपेताः खरप्रमुख राक्षसाः ।
तेन संजातरोषेण रामेण रणमूर्धनि ॥ ७ ॥
[४]अनुक्ता परुषं किंचित् शरैर्व्यापारितं धनुः ।
चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम् || ८ ||
निहतानि [५] शरैस्तीक्ष्णैः मानुषेण पदातिना ।
खरश्च निहतः संख्ये दूपणच निपातितः ॥ ९ ॥
[६] हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः ।

 किंचिदपि परुषमनुक्ता धनुः शरैः-शरमोक्षणव्यापारैः व्यापारितं संजातव्यापारं कृतम् ॥ ९ ॥

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः ॥ १० ॥
स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः ।
[७] दुश्शीलः कर्कशः तीणः मूर्खो लुब्धोऽजितेन्द्रियः ॥ ११॥
[८] त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः ।
[९] येन वैरं विनाऽरण्ये सच्च[१०] माश्रित्य केवलम् ॥ १२ ॥
 


  1. वर्तमाना-ङ.
  2. संयुगे रामेण सह संगता: इत्यन्वयः
  3. संयता:-ड.
  4. अनेन रामगाम्भीर्य, स्वपक्षीयाणांअवमानाधिक्यं च सूच्यते ।
  5. शरैदीप्तै:- ज.
  6. इत्वा त्रिशिरसं चापि-ज.
  7. अशील:-ज.
  8. 'त्यक्ता धर्ममधर्मात्मा-ङ.
  9. यद्यपि शूर्पणखया 'आयीत्वे च तवानेतुमुद्यताऽहं
    वराननाम् । विरूपिताऽस्मि' (३४-२१) इत्युक्तम् । परन्तु तया स्वस्वार्थनिगूहनाव,
    रावणार्थमेव स्वप्रवृत्तिरिति कथनाच रावणः एवं वदति
  10. मास्थाय-ज.