पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे



पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। सुग्री वे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान् । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलबर्धनः॥ १६ ॥
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥
ततो वानरपलीनां सर्वासामेव शोभनम् । चकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८ ॥
ततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः । योजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥
अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथोत्तमम् । आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० ॥
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। स्नातौ दिव्यनिभैर्वस्त्रैर्जस्मतुः शुभकुण्डलौ ॥ २१ ॥
वराभरणसंपन्ना ययुस्ताः शुभकुण्डलाः । सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये। पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥
अशोको विजयश्चैव सुमन्त्रश्चैव संगताः । मन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥
सर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः । कर्तुमर्हसि रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५ ॥
इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् । नगरान्निर्ययुस्तृणं रामदर्शनबुद्धयः ॥ २६ ॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥
जग्राह भरतो रश्मीशत्रुनश्छत्रमाददे । लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २८
श्वेतं च वालन्यजनं जग्राह पुरतः स्थितः । अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥
ऋषिसङ्घैस्तदाकाशे देवैश्च समरुद्गणैः । स्तूयमानस्य रामम्य शुश्रुवे मधुरध्वनिः ॥ ३० ॥
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । आरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१ ॥
नवनागसहस्राणि ययुरास्थाय वानराः । मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः । प्रययौ पुरुषव्याघ्रस्तां पुरां हर्म्यमालिनीम् ॥ ३३ ॥
ददृशुम्ते समायान्तं राघवं मपुरःसरम् । विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । अनुजस्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ ॥
अमात्यैाह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥
स पुरोगामिभिस्तृर्यैस्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः । नरा मोदकहस्ताश्च रामस्य पुरता ययुः ॥ ३८ ॥
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । वानराणां च तत् कर्म राक्षसानां च तद्ब्लम् ॥ ३९ ॥
विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् । श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥
द्युतिमानेतदाख्याय रामो वानरसंवृतः । हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ॥