पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२३
एकत्रिंशदुत्तरशततमः सर्गः


ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे । ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४२ ॥
अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् । अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४३ ॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः । कौसल्यां च सुमित्रां च कैकेयीमभिवादय ॥ ४४ ॥
यञ्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । मुक्तावैदूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ ४५ ॥
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः । पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४६ ॥
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४७ ॥
उवाच च महातेजाः सुग्रीवं राघवानुजः । अभिषेकाय रामस्य दूतानाज्ञापय प्रभो॥ ४८ ॥
सौवर्णान् वानरेन्द्राणां चतुणां चतुरो घटान् । ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ४९ ॥
यथा प्रत्यूषसमये चतुर्णा सागराम्भसाम् । पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५० ॥
एवमुक्ता महात्मानो वानरा वारणोपमाः। उत्पेतुर्गगनं शीघ्रं गरुडानिलशीघ्रगाः ॥ ५१ ॥
जाम्बवांश्च सुषेणश्च वंगदर्शी च वानरः । ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५२ ॥
नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् । पूर्वात् समुद्रात् कलशं जलपूर्णमथानयत् ॥ ५३ ॥
सुपेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् । ऋषभो दक्षिणात्तर्णं समुद्राज्जलमाहरत् ॥ ५४ ॥
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् । गवयः पश्चिमात्तोयमाजहार महार्णवात् ॥ ५५ ॥
रत्नकुम्भेन महता शीतं मारुतविक्रमः । उत्तराञ्च जलं शीघ्रं गरुडानिलविक्रमः ॥ ५६ ॥
आजहार स धर्मात्मा नलः सर्वगुणान्वितः । ततस्तैर्वानरश्रेष्ठैरानीत प्रेक्ष्य तज्जलम् ॥ ५७ ॥
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह । पुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५८ ॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ५९ ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६० ॥
अभ्यषिश्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६१ ॥
ऋत्विग्भिार्ब्रह्मणैः पूर्वं कन्याभिर्मन्त्रभिस्तथा । योधैश्चैवाभ्यषिञ्चस्ते संप्रहृष्टाः सनैगमैः ॥ ६२ ॥
सर्वौषधिरसर्दिव्यैर्दैवतैर्नभसि स्थितैः। चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः ॥ ६३ ॥
ब्रह्मणा निर्मितं पूर्व किरीटं रत्नशोभितम् । अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६४ ॥
तस्यान्ववाये राजानः क्रमाध्येनाभिषेचिताः । सभायां हेमक्लृप्तायां शोभितायां महाजनैः ॥ ६५ ॥
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः । नानारत्नमये पीठे कल्पयित्वा यथाविधि ॥ ६६ ॥