पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९११
षड्विंशत्युत्तरशततमः सर्गः

राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् । ययौ तेन विमानेन हंसयुक्तेन भास्वता ॥ २६
प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् । ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः ॥ २७
यथासुखमसंबाधं दिव्ये तस्मिन्नुपाविशन् ।

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायं संहितायाम्

युद्धकाण्ड पुष्पकोत्पतनं नाम पञ्चविंशत्युत्तरशततमः सर्गः



स्थूलाक्षरोदाहरणम्पड्रिंशत्युत्तरशततमः सर्गः


प्रत्यावृत्तिपथवर्णनम्

अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् । उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥ १
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ २
कैलामशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा ॥ ३
एतदायोधनं पश्य मांसशोणितकर्दमम् । हरीणां राक्षसानां च सीते विशसनं महत् ॥ ४
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः । तव हेतोविंशालाक्षि रावणो निहतो मया ॥ ५
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः । धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥ ६
विद्युन्माली हतश्चात्र सुषेणेन महात्मना । लक्ष्मणेनेन्द्रजिचात्र रावणिनिहतो रणे ॥ ७
अङ्गदेनात्र निहतो विकटो नाम राक्षसः । विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ ॥ ८
अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः । अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ॥ ९
सपत्नीनां सहस्रेण सास्रेण परिवारिता । एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ॥ १०
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् । एष सेतुर्मया बद्धः सागरे लवणार्णवे ॥ ११
तव हेतोविशालाक्षि नलसेतुः सुदुष्करः । पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।। १२
अपारमभिगर्जन्तं श़ङ्खशुक्तिनिषेवितम् । हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ॥ १३
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम । एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥ १४